________________
९४
काव्यमाला |
क्षीण इति । अत्र शश्युपमानं क्षीणोऽपि वृद्धिगुणयुक्तो निर्दिष्टः । यौवनं तूपमेयं क्षयदोषयुक्तमिति ॥
अथान्योन्यमाह -
यत्र परस्परमेकः कारकभावोऽभिधेययोः क्रियया ।
संजायेत स्फारिततत्त्वविशेषस्तदन्योन्यम् ॥ ९१ ॥
यत्रेति । यत्राभिधेययोः पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्त्रादिकारकत्वं संजायेत । कीदृशः । स्फारितः परिपोषितस्तत्त्वविशेषो विशिष्टधर्मो येन स तथाभूतः । तदन्योन्यमलंकारः । परस्परग्रहणं 'सिंहः प्रसेनमवधीसिंहो जाम्बवता हतः' इत्यन्योन्यनिवृत्त्यर्थम् । एकग्रहणं तु 'कृष्णद्वैपायनं पार्थः सिषेवे शिष्यवत्ततः । असावध्यापयेत्तं तु विद्यां योगसमन्विताम् ॥' इत्येतन्निवृत्त्यर्थम् ॥
उदाहरणमाह
रूपं यौवनलक्ष्म्या यौवनमपि रूपसंपदस्तस्याः ।
अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः ॥ ९२ ॥
रूपमिति । अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः । तेन च रूपस्य दीर्घनयनत्वादिको विशेषः स्फारितः । यौवनस्यापि वपुर्विभागश्चतुरस्रशोभादिकत्वविशेषः स्फारितः ॥
अथोत्तरम् -
उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् ।
क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥ ९३ ॥
उत्तरेति । उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निश्चीयन्ते तदुत्तरम् । तथा प्रश्नाश्चोत्तरं यत्र स्यात्तदप्युत्तरम् । इति द्विवेदम् । अस्य चाद्योत्तरभेदस्यानुमानस्य चायं विशेषो यत्तत्र सामान्येन हेतुहेतुमद्भावः साध्यते । अत्र तु न हेतुहेतुमद्भावो वाक्ये निबध्यते । किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति ॥ उदाहरणम्
1
भण मानमन्यथा मे भ्रुकुटिं मौनं विधातुमहमसहा ।
शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखीभवितुम् ॥ ९४ ॥ भणेति । अत्रास्मान्नायिकोक्तादुत्तरात्सखीवचनान्युच्चीयन्ते । नूनमस्याः सखीभिरुक्तं यथा सापराधस्य प्रियस्य भ्रुकुटिमौनपराङ्मुखी भावान्कुरुष्वेति ॥
द्वितीयोदाहरणमाह
किं स्वर्गादधिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः । सौराज्यमदुर्भिक्षं सत्काव्यरसामृताखादः ॥ ९५ ॥