SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] काव्यालंकारः। अथ व्यतिरेकः यो गुण उपमेये स्यात्तत्प्रतिपन्थी च दोष उपमाने । व्यस्तसमस्तन्यस्तो तौ व्यतिरेकं त्रिधा कुरुतः ॥ ८६ ॥ य इति । उपमेये यो गुणः स्यादुपमाने च तस्य गुणस्य प्रतिपन्थी विरुद्धो यो दोषस्तौ गुणदोषौ व्यतिरेकमलंकारं त्रिधा त्रिविधं कुरुतः । कथमित्याह-व्यस्तसमस्तन्यस्ताविति । तत्र गुण एवोपमेये न्यस्यते न तूपमाने दोष इत्येकः प्रकारः । तथोपमाने दोषो न्यस्यते, न तूपमेये गुण इति द्वितीयः । एवं व्यस्तभेदौ द्वौ । तथोपमेये गुणोऽपि न्यस्यते, उपमाने च दोषोऽपीति समस्तन्यासे एक एव प्रकार इति त्रैविध्यम् । गुणश्चात्र हृदयावर्जकार्थविशेषो गृह्यते, न तु द्रव्यगुणक्रियाजातिषु प्रसिद्धः । दोषोऽपि चोक्तगुणविपक्ष एव । न चात्रौपम्यालंकारभेदत्वमाशङ्कनीयम् । सादृश्याभावात् । उपमानोपमेयपदोपादानं तु व्यतिरेकसिद्धयर्थम् । नान्यथा संघटते गुणिनः सदोषेण सहौपम्यविघटनं व्यतिरेक इति कृत्वा ॥ तदुदाहरणान्याह सकलङ्केन जडेन च साम्यं दोषाकरेण कीदृक्ते । अभुजंगः समनयनः कथमुपमेयो हरेणासि ॥ ८७ ॥ सकलङ्केनेति । सकलङ्केत्यार्यार्धम् । अत्रोपमाने दोषन्यास उपमेये गुणवत्ता प्रतीयते । अभुजंग इत्याद्युत्तरार्धम् । अत्रोपमाने सदोषत्वं गम्यते ॥ तरलं लोचनयुगलं कुवलयमचलं किमेतयोः साम्यम् । विमलं मलिनेन मुखं शशिना कथमेतदुपमेयम् ॥ ८८ ॥ तरलमिति । अत्रोपमेये गुण उपमाने दोषश्च न्यस्त इति समस्तो भेदः ॥ भेदान्तरमाह यो गुण उपमाने वा तत्प्रतिपन्थी च दोष उपमेये । भवतो यत्र समस्तौ स व्यतिरेकोऽयमन्यस्तु ॥ ८९ ॥ __ य इति । सोऽयं व्यतिरेकोऽन्यः पूर्वविलक्षणः, यत्रोपमाने गुणस्य न्यास उपमेये च दोषस्य तौ समस्तौ न्यसनीयौ । व्यस्तयोरपि केचिदिच्छन्ति । यथा-'अभ्यर्णवर्ति दाह्य वस्तु तदानीं विदह्याग्निः । शाम्यति यस्तेन कथं समो ननु स्यात्प्रियाविरहः ॥' तथा-'स्वदन्नेव तदात्वेऽपि बाधितोऽपि न शाम्यति । यः स दासेरकः क्षुद्रक्ष्वेडतुल्यः किमुच्यते ॥ तदेतद्युक्तम् । पूर्वेणैव सिद्धत्वात् । सर्वोऽप्यात्मीयधर्मोत्कर्षों गुणः । स चात्रोपमेये विद्यत इति ॥ उदाहरणमाह क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ९० ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy