SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अपृष्टोदाहरणमाह कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ ८१ ॥ कौटिल्यमिति । इदं कौटिल्यादिषु गुणेषूदाहरणम् । द्रव्यक्रियाजातिषु तु स्वयं द्रष्टव्यानि । लक्षणयोजना च कर्तव्येति ॥ अथ हेतु:. हेतुमता सह हेतोरभिधानमभेदकृद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥ ८२ ॥ हेत्विति । हेतुमता कार्येण सह हेतोः कारणस्य यत्राभिधानमभेदकृदभेदेन भवेत्स हेतुर्नामालंकारः । अन्येभ्योऽलंकारेभ्यः पृथग्भूतो विलक्षणः । अत्र वालंकारग्रहणमन्येभ्यः पृथग्भूत इति च परमतनिरासार्थम् । तथा हि नाम हेतुसूक्ष्मलेशानामलंकारत्वं नेष्टम् । एषां चालंकारत्वं विद्यते । वाक्यार्थालंकरणान्न चान्यत्रान्तर्भावः शक्यते कर्तुमिति ॥ उदाहरणमाह अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमति संप्रति लोकोत्कण्ठाकरः कालः ।। ८३ ।। अविरलेति । अविरलानां कमलानां विकासहेतुत्वाद्वसन्तकाल एव तथोच्यते । एवं सकलालिमदश्चेत्यादावपि द्रष्टव्यम् । न त्वविरलानां कमलानां विकासो यत्रेत्यादि बहुब्रीहिः कर्तव्यः । तदा त्वभेदो न स्यात् । उदाहरणदिगियम् । इदं तूदाहरणं यथा'आयुघृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम् ॥ अथ कारणमाला कारणमाला सेयं यत्र यथा पूर्वमेति कारणताम् । अर्थानां पूर्वार्थाद्भवतीदं सर्वमेवेति ॥ ८४ ॥ कारणेति । सेयं कविप्रसिद्धा कारणमाला यस्यामर्थानां मध्याद्यथापूर्व यो यः पूर्वः स स उत्तरेषामर्थानां कारणभावं याति । कथं याति पूर्वस्मादर्थादिदमुत्तरोत्तरार्थजातं सर्वमेव भवतीत्यमुना प्रकारेणेति ॥ उदाहरणमाहविनयेन भवति गुणवान्गुणवति लोकोऽनुरज्यते सकलः। अभिगम्यतेऽनुरक्तः ससहायो युज्यते लक्ष्म्या ॥ ८५ ॥ विनयेनेति । अत्र पूर्वः पूर्वो विनयादिरुत्तरोत्तरस्य गुणवत्त्वादेनिमित्तम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy