SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] काव्यालंकारः। अभिप्रायस्तु तैः सिंहानां महत्त्वप्रतिपादनमेव । कथमन्यथा तज्जन्मनि स्पृहा भवेत् । अथवात्रैवमुदाहरणम्-'कृशः काणः खञ्जः श्रवणरहितः पुच्छविकल: क्षुधाक्षामो वृद्धः पिठरककपालार्दितगलः । व्रणैः पूतिक्लिन्नैः कृमिकुलचितः वापबहुलः शुनीमन्वेति श्वा तमपि मदयत्येव मदनः ॥ अथ परिवृत्तिः युगपदानादाने अन्योन्यं वस्तुनोः क्रियेते यत् । क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृत्तिः ॥ ७७ ॥ युगपदिति । यदन्योन्यं परस्परं वस्तुनोर्युगपत्समकालं दानादाने त्यागग्रहणे क्रियेते सेत्यमुना प्रकारेण परिवृत्तिर्नामालंकारो भवति । अथवा क्वचिदसती दानादाने यदुपचयेते सा परिवृत्तिः । कथमसत उपचार इत्याह-प्रसिद्धितः । प्रसिद्ध्या हि न किंचिदपि विरुध्यते । अन्यथा गगनादीनामपि मूर्तधर्मवर्णनमयुक्तं स्यादिति भावः ॥ उदाहरणे द्वाभ्यामार्यार्धाभ्यामाह दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ ७८ ।। दत्त्वेति । कश्चिद्यसनी वक्ति । इदमत्र दर्शनसमकालमेव प्राणक्रयस्तथा चित्तहरण. समकालमेव हृदयोत्कलिकादानमुपचरितम् ॥ अथ परिसंख्या पृष्टमपृष्टं वा सद्गुणादि यत्कथ्यते क्वचित्तुल्यम् । अन्यत्र तु तदभावः प्रतीयते सेति परिसंख्या ॥ ७९ ॥ पृष्टमिति । यद्गुणादि गुणक्रियाजातिलक्षणं वस्तु क्वचिनियतैकवस्तुन्याधारे विद्यमानं कथ्यते । कीदृशम् । सत्तुल्यं साधारणम् । अन्यत्रापि विद्यमानं सदित्यर्थः । यद्येवं कस्मात्कचित्कथ्यत इत्याह-अन्यत्र वस्त्वन्तरे तस्याभावः प्रतीयते । कथने कृते सति तच्च क्वचित्पृष्टं कथ्यते क्वचिदपृष्टमिति द्विधा । पृष्टग्रहणं वाक्ये प्रश्नस्योपादानार्थम् । सेत्यमुना प्रकारेण परिसंख्या भण्यते ॥ उदाहरणानि यथा किं सुखमपारतत्र्यं किं धनमविनाशि निर्मला विद्या । किं कार्य संतोषो विप्रस्य महेच्छता राज्ञाम् ॥ ८० ॥ किमिति । अत्र सुखो गुणं धनं त्वविनाशित्वगुणयुक्तं पृष्टम् । तथा किं कार्यमित्यत्र द्विजनृपकर्तृका क्रिया पृष्टा । तेषां चान्यत्र सत्त्वेऽप्यपारतन्त्र्ये विद्यायां संतोषे महेच्छ. तायां च सद्भावः कथितः । अन्यत्र तदभाव एव प्रतीयते । अपारतन्त्र्यमेव सुखमित्याद्यवधारणप्रतीतेरिति । जातौ तु के ब्राह्मणा येषां सत्यमित्यादि द्रष्टव्यम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy