________________
काव्यमाला।
वस्तुस्वरूपमात्राख्यापकमिति । सम्यग्ग्रहणं तु कविविवक्षिताभिप्रायाप्रत्यायकविशेषणानां निवृत्त्यर्थम् । तस्य भवन्ति द्रव्यमित्याद्यर्थचातुर्विध्याभिधानादेव तत्त्वावगमे सति द्रव्यादिभेदभिन्नं चतुर्विध इति यत्कृतं तत्कैश्चिक्रियाया अवस्तुत्वमुक्तं त्रिविधश्च परिकरोऽभ्यधायि तन्मतनिरासार्थमिति ॥ तदुदाहरणानि यथाक्रममाह
उचितपरिणामरम्यं खादु सुगन्धि खयं करे पतितम् ।
फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधेदानीम् ॥ ७३ ॥ उचितेति । काचित्सखीमाह-हे मुग्धे स्वल्पप्रज्ञे, एवंविधं फलं तदानीमुत्सृज्येदानी मुधैव वृथैव ताम्यसि खिद्यस इत्यर्थः । अत्र फलवस्तुनो विशेषणानि साभिप्रायाणि । अयं चाभिप्रायः-योग्यपरिपाकसुन्दरता सुखादुरसता सौगग्ध्य स्वयं हस्तपतनं चैकैकमपरित्यागकारणम् । त्वया त्वेतत्सकलगुणयुतं फलं त्यजन्त्या स्वयं जानन्त्यैव महाननुतापोऽङ्गीकृत एव । तत्किमिदानी खेदेनेति । अथवात्रेदमुदाहरणम् --'कर्ता द्यूतच्छलानां जतुमयभवनादीपनो योऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं वास्ते दुर्योधनोऽसौ कथय न तु रुषा द्रष्टुमभ्यागतौ खः ॥' इदं द्रव्योदाहरणम् ॥
कार्येषु विनितेच्छं विहितमहीयोपराधसंवरणम् ।
अस्माकमधन्यानामार्जवमपि दुर्लभं जातम् ॥ ७४ ॥ कार्येष्विति । मानिनी नायकमिदमाह । अत्रार्जवं गुणस्तद्विशेषणान्यन्यानि साभिप्रायाणि । तथाह्यार्जवे सति मुग्धतया यदेव कार्येषु सुरतेषु युष्मदादिरिच्छति तदेव क्रियते । तथा महीयसां गुरूणामपराधानां संवरणमाच्छादनं भवति । तच्चार्जवमस्माकमधन्यानां दुष्प्रापं जातम् । अयमभिप्रायः-नाहमृज्वी येनैतानार्जवगुणान्मयि सं. भाव्य मां प्रसादयसीति ॥ क्रियापरिकरस्तु
सततमनिर्वृतमानसमायाससहस्रसंकटक्लिष्टम् ।।
गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम् ॥ ७५॥ सततमिति । अत्र जीवतीति क्रिया। तद्विशेषणान्यनिर्वृतमानसमित्यादीनि । तेषामभिप्रायो राज्यगर्हादिकः । एवंविधं राज्ञो जीवनं गर्हितमित्यर्थः ॥ अथ जातिपरिकरमाह
अत्यन्तमसहनानामुरुशक्तीनामनिघ्नवृत्तीनाम् ।
एकं सकले जगति स्पृहणीयं जन्म केसरिणाम् ॥ ७६ ।। अत्यन्तमिति । अत्र केसरिणामिति सिंहजातिः । तद्विशेषणान्यसहनानामित्यादीनि ।