SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः] काव्यालंकारः। वाक्यार्थान्दीपयति प्रकाशयतीत्यन्वर्थबलादादिदीपकं मध्यदीपकमन्तदीपकं चेति त्रिविधम् । एवं चैतत्षोढा षड्डिधं भवेदिति ॥ तदुदाहरणानि यथाक्रममाह कान्ता ददाति मदनं मदनः संतापमसममनुपशमम् । संतापो मरणमहो तथापि शरणं नृणां सैव ॥ ६६ ॥ कान्तेति । इदमादिक्रियादीपकम् ॥ तारुण्यमाशु मदनं मदनः कुरुते विलासविस्तारम् । स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत् ॥ ६७ ॥ तारुण्यमिति । इदं मध्यक्रियादीपकम् ॥ नवयौवनमङ्गेषु प्रियसङ्गमनोरथो हि हृदयेषु । अथ चेष्टासु विकारः प्रभवति रम्यः कुमारीणाम् ॥ ६८ ॥ नवेति । इदमन्तक्रियादीपकम् ॥ निद्रापहरति जागरमुपशमयति मदनदहनसंतापम् । जनयति कान्तासंगमसुखं च कोऽन्यस्ततो बन्धुः ॥ ६९ ॥ निद्रेति । इदमादिकर्तृदीपकम् ॥ संसयति गात्रमखिलं ग्लपयति चेतो निकाममनुरागः । जनमसुलभं प्रति सखे प्राणानपि मस मुष्णाति ॥ ७० ॥ स्रंसयतीति । इदं मध्यकर्तृदीपकम् ॥ दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लजन्ते । त्रस्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥ ७१ ॥ दूरादिति । इदमन्तकर्तृदीपकम् ॥ एवं कर्मादिषु कारकेषूदाहरणानि द्रष्टव्यानि । अस्य च दीपकस्य प्रायोऽलंकारान्तरैः समावेश इष्यते । तथा ह्याद्ययोरुदाहरणयोः कारणमालायाः सद्भावः । तृतीयचतुर्थपञ्चमेषु वास्तवसमुच्चयस्य । षष्ठे जातेः ॥ अथ परिकरः साभिप्रायैः सम्यग्विशेषणैर्वस्तु यविशिष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥ ७२ ॥ सेति । यद्दव्यगुणक्रियाजातिलक्षणं चतुर्विधं वस्तु साभिप्रायैर्विशेषणैः सम्यग्विशिप्येत स इत्यमुना प्रकारेण चतुष्प्रकारः परिकरालंकारो भवति । साभिप्रायग्रहणं वस्तुखरूपमात्राभिधानकल्पितानां विशेषणानां निरासार्थम् । यथा-'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।' इत्यत्र भूर्जत्वचां कुञ्जरबिन्दुशोणा इति विशेषणं
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy