________________
८८ .
काव्यमाला।
उदाहरणान्याह
अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः ।
अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ६० ॥ अविरलेति । अत्रादौ बलवतः कालस्य साधकस्योपन्यासः पश्चात्साध्यस्य मरणस्य भाविनोऽपि मृता इति भूतत्वेन निर्देशः ॥ तथा
दिष्टया न मृतोऽस्मि सखे नूनमिदानीं प्रिया प्रसन्ना मे ।
ननु भगवानयमुदितस्त्रिभुवनमानन्दयन्निन्दुः ॥ ६१ ॥ दिष्टयेति । अत्र प्रियाप्रसादस्य साध्यस्य भाविनो भूतत्वेनादावुपन्यासः पश्चाच्चन्द्रोदयस्य बलवतः साधनस्येति भूतोदाहरणम् ॥ भाविन्याह
यास्यन्ति यथा तूर्ण विकसितकमलोज्ज्वलादमी सरसः । हंसा यथैवमेतां मलिनयति घनावली ककुभम् ॥ ६२ ॥ यास्यन्तीति । अत्र हंसगमनस्य साध्यस्यादौ भावित्वेन निर्देशः पश्चात्साधनस्य बलवतो घनावलीलक्षणस्येति ॥ तथा
वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि ।
प्रियसखि तथेह नचिरादेष्यति तव वल्लभो नूनम् ॥ ६३ ॥ वहतीति । अथ पूर्व बलवतो मलयवातादिकस्य साधकस्य निर्देशः । पश्चाद्वल्लभागमनस्य साध्यस्य भावित्वेनेति ॥ अथ दीपकम्
यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति ।
तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥ ६४ ॥ यत्रेति । यत्रानेकेषां वाक्यार्थानामेकं क्रियापदं भवति तद्वत्कादिकारकपदं वा तदित्यमुना प्रकारेण दीपकं द्वेधा । क्रियादीपकं कारकदीपकं चेत्यर्थः ॥ अथास्यान्वर्थभेदान्दर्शयितुमाह
आदौ मध्येऽन्ते वा वाक्ये तत्संस्थितं च दीपयति । वाक्यार्थानिति भूयस्त्रिधैतदेवं भवेत्षोढा ॥ ६५ ॥ आदाविति । तदिति द्विविधं दीपकं पद्यादिलक्षणवाक्यस्यादौ मध्येऽन्ते वावस्थितं