________________
७ अध्यायः ]
काव्यालंकारः ।
उत्कण्ठेति । अत्र सुखाय मृगलोचनां स्त्रियं दृष्ट्वा न केवलं सुखं न प्राप्तं यावदनर्थ उत्कण्ठादिकः प्राप्तः । क्रियाविपत्तिरत्र दर्शनच्छेदः ॥
अथानुमानमाह
―――――――
वस्तु परोक्षं यस्मिन्साध्यमुपन्यस्य साधकं तस्य । पुनरन्यदुपन्यस्येद्विपरीतं चैतदनुमानम् ॥ ५६ ॥
८७
वस्त्विति । साध्यं परोक्षं वस्तु यत्र प्रथममुपन्यस्य पुनस्तस्य साधकं हेतुं कविरुपन्यस्येत्तदनुमानमलंकारः । तथापि विपरीतं चेति पूर्वं साधकोपन्यासः पश्चात्साध्यनिर्देशो यत्र तच्चानुमानम् । वास्तवलक्षणेनैवापुष्टार्थस्य परिहृतत्वादनिरत्र धूमादित्यलं - कारत्वं न भवति । साधकमिति जातावेकवचनम् । तेन द्वयोर्बहुषु च साधकेषु भवति । यथा— 'स्पष्टाक्षरमिदं यत्नान्मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वादनिर्ह्रादि मन्ये वदति सारिका ॥' साधकग्रहणादेव वस्तुनः साध्यत्वे लब्धे साध्यग्रहणमवस्तुत्वेन सिद्धस्याभावस्यापि वस्तुत्वप्रतिपत्त्यर्थम् । यत्साध्यं तद्भावरूपमभावरूपं वा भवत्विति क्त्वाप्रत्ययेनैव पुनः शब्दार्थे लब्धे साध्यसाधकयोश्च विलक्षणत्वादन्यत्वे सिद्धे पुनरन्यपदग्रहणं बहूनां साधकानामुपन्यासे सत्यनुमानोज्ज्वलत्वख्यापनार्थम् । साधकमुपन्यस्येत्पुनश्चान्यदुपन्यस्येदिति शब्दशक्त्यैव वा भूयस्ताप्रतीतिः ॥
उदाहरणमाह
सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः ।
कथमन्यथा ललाटे यावकरसतिलकपतिरियम् ॥ ५७ ॥
सावज्ञमिति । अत्र पादपतनं साध्यमुपन्यस्य ललाटगतयावकरसतिलकपङ्किः साधकमुपन्यस्तम् ॥
तथा
वचनमुपचारगर्भं दूरादुद्गमनमासनं सकलम् ।
इदमद्य मयि तथा ते यथासि नूनं प्रिये कुपिता ॥ ५८ ॥ वचनमिति । अत्र वचनादीनि पूर्व साधकान्युपन्यस्तानि पश्चात्कुपितत्वं साध्यमिति वैपरीत्यम् ॥
अथ भेदान्तराण्याह
यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति ।
भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम् ॥ ५९ ॥
यत्रेति । यत्रालंकारे बलवत्तरकारणदर्शनेनान्यदिति कार्यमभूतमेवानुत्पन्नमेव भूतत्वेन भावित्वेन वा कथ्येत तत्तथेति पूर्ववद्यथापूर्वं साध्यमुपन्यस्य साधकोपन्यासः साधकं चोपन्यस्य साध्योपन्यास इत्येवं चतुर्धा तदन्यत्पूर्वोक्तादपरमनुमानम् ॥