________________
काव्यमाला।
___ रूपमिति । अत्र रूपव्यसनयोरर्थयोरेकत्र रिपुस्त्रियां विद्यमानयोरनौचित्यम् । यत्र हि रूपं न तत्र व्यसनम् । यदाह-'अलभ्यशोकाभिभवेयमाकृतिः' इति । अथवासंभाव्यस्य रूपस्यातिव्यसनस्य च भावोऽत्र कथ्यत इति साधारणमेकमुदाहरणम् ॥ भूयोऽपि भेदान्तराण्याह
तदिति चतुर्धा विषमं यत्राण्वपि नैव गुर्वपि च कार्यात् ।
कार्य कुर्यात्कर्ता हीनोऽपि ततोऽधिकोऽपि न वा ॥ ५१ ॥ तदिति । तद्विषममिति वक्ष्यमाणेन प्रकारेण चतुर्धा चतुष्प्रकारम् । कथमित्याह-यत्र कुतश्चित्कार्याद्धेतोररावपि खल्पमपि कार्य कर्ता नैव कुर्यादित्येकः प्रकारः । गुर्वपि कुयादिति द्वितीयः । अत्र च हीनाधिकत्वं कर्ता नापेक्षते । तथा हीनोऽशक्तोऽपि कर्ता तत्कार्यं कुर्यादिति तृतीयः । तथाधिकोऽपि न वा नैव कुर्यादिति चतुर्थः । अत्र कार्ययोरणुत्वगुरुत्वापेक्षा न कर्तव्या। कार्यादिति च सर्वेषु योज्यम् । अन्यत्र वैषम्यनिरासार्थम् । अपिशब्दा विस्मयार्थाः । चशब्दः समुच्चये पूर्वापेक्षः । अत्रानौचित्यमशक्यक. र्तृवं च विषमशब्दार्थः । विषममिति नपुंसकनिर्देशो विषमालंकारयुक्तकाव्यापेक्षयेति ॥ एतदुदाहरणानि चत्वार्यार्याद्वयेनाहत्वद्भुत्यावयवानपि सोढुं समरे क्षमा न ते क्षुद्राः । असिधारापथपतितं त्वं तु निहन्या महेन्द्रमपि ॥ ५२ ॥ त्वं तावदास्व दूरे भृत्यावयवोऽपि ते निहन्त्यहितान् ।
का गणना तैः समरे सोढुं शक्रोऽपि न सहस्त्वाम् ॥ ५३॥ त्वदिति । त्वमिति । अत्राणुत्वख्यापनार्थोऽवयवशब्दः । ततोऽरावपि भृत्यावयवसहनलक्षणं कार्य रिपवः कर्तुमशक्ताः । नृपभयाशङ्कनात्कार्याद्धेतोः । तथा गुर्वपि शक्रहननं कार्यात्सत्त्वानृपेण कियते । तथा हीनोऽपि भृत्यावयवो रिपुवधं कार्य तेजस्विनृपसंपर्कात्कील्शया वा करोति । तथाधिकोऽपि शक्रः कर्ता राजसहनलक्षणं तद्भयात्कार्यान्न करोति ॥ भूयोऽप्याह
यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत् ।
कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ ५४ ।। यत्रेति । यत्र क्रियाविपत्तेः कर्मनाशाद्धेतो केवलं तावत्कर्तुः क्रियाफलं न भवेद्यावतानर्थश्च भवेत्तदपरमन्यद्विषममभिधीयते । दारुणार्थश्चात्र विषमशब्दः । यथा'विषममिदं वनम्' इति ॥ निदर्शनमाह
उत्कण्ठा परितापो रणरणकं जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ ५५ ॥