________________
७ अध्यायः]
काव्यालंकारः।
८५
कर्मण्याह
आच्छिद्य रिपोलक्ष्मीः कृता त्वया देव भृत्यभवनेषु ।
दत्तं भयं द्विषयः पुनरभयं याचमानेभ्यः ॥ ४६॥ आच्छिद्येति । अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता । तथैकस्मिन्दूिषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते । पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथनमर्थः । इह तु परिपाटी ॥ अथ विषममाह
विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम् ।
यत्राथेयोरसन्तं परमतमाशङ्कय तत्सत्त्वे ॥ ४७ ॥ विषम इति । असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विघटयति । कीदृशं संबन्धम् । असन्तमविद्यमानम् । ननु यद्यसन्संबन्धस्तर्हि स्वयं विघटित एव किमस्य विघटनीयमित्याह-तस्य सत्त्वे सद्भावे परमतं पराभिप्रायमाशङ्कय । परमतेन सन्तं कृत्वेत्यर्थः ॥ उदाहरणमाह
यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः।
सततं खलेषु भवतां क खलाः क च सज्जनस्तुतयः ॥ ४८ ॥ य इति । केनचित्कस्यचिदने उक्तममुना खलेनासौ सज्जनः स्तुत इति । स त्वसहमानस्तमाह-अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः । यतस्तदनुकूलं ब्रूथ । कस्मात्ते तत्स्तुतिं न कुर्वन्तीत्याह-यस्य खलस्य यो न विषयः सज्जनस्तवादिः स तं नैव कुर्यात् । किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह-व खलाः व च सज्जनस्तुतय इति । अत्र खलस्तुत्योरसनेव संबन्धः परमते सत्त्वाशङ्कया विघटितः । इदं चात्रोदाहरणम्-'निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं व जन्तवः' इत्यादि ॥ प्रकारान्तरमाह
अभिधीयते सतो वा संबन्धस्यार्धयोरनौचित्यम् ।
यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥ ४९ ॥ अभिधीयत इति । यत्रार्थयोर्विद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्योऽयं विषमाख्योऽलंकारः । अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः। अनुचितार्थोऽत्र विषमशब्दः ॥ उदाहरणमाह
रूपं क मधुरमेतत्क चेदमस्याः सुदारुणं व्यसनम् । इति चिन्तयन्ति पथिकास्तव वैरिवधू वने दृष्ट्वा ॥ ५० ॥