________________
काव्यमाला।
अथ पर्यायः
वस्तु विवक्षितवस्तुप्रतिपादनशक्तमसदृशं तस्य ।
यदजनकमजन्यं वा तत्कथनं यत्स पर्यायः ॥ ४२ ॥ वस्त्विति । यद्वस्तु विवक्षितस्य मनोगतस्य वस्तुनः प्रतिपादनसमर्थ तस्य कथनं यत्स पर्यायोऽलंकारः । समासोक्त्यन्योक्त्योः पर्यायत्वनिवृत्त्यर्थमाह-असदृशं तस्य । तस्य वाच्यस्य वस्तुनोऽसदृशमतुल्यम्। भावसूक्ष्मयोः पर्यायोक्तनिवृत्त्यर्थमाह-अजनकमजन्यं वेति । अयमर्थः-प्रथमभावे विकारलक्षणेन कार्येण विकारवतोऽभिप्रायो यथा गम्यते तथा स्वजनकेन सह प्रतिबन्धश्चेति गमकस्य जन्यतास्ति । द्वितीयभावसूक्ष्मयोस्तु वस्त्वन्तरप्रतीतिजननाजनकतेति तेषां व्यवच्छेदकमिदं विशेषणद्वयम् । इह तु विवक्षितवस्तुप्रतिपादकं वस्तु न तथाभूतम् । वाच्यवाचकभावशून्यमित्यर्थः । द्वितीयभावे हि वतुरभिप्रायरूपमर्थान्तरं वाक्येन गम्यते । सूक्ष्मे तु युक्तिमदर्थोऽपि शब्दोऽर्थान्तरमुपपत्तिमद्गमयति । इह तु स एवार्थः पर्यायेणोच्यते । न त्वभिप्रायरूपान्तरप्रतीतिरिति ॥ उदाहरणमाह
राजञ्जहासि निद्रां रिपुबन्दीनिबिडनिगडशब्देन ।
तेनैव यदन्तरितः स कलकलो बन्दिवृन्दस्य ॥ ४३ ।। राजनिति । राज्ञश्चाटुवचनमिदम् । अत्र बन्दीनिगडरवेण निद्रामोक्षकथनं यद्वस्तु तस्य तावन्मात्रमेव न तात्पर्यमपि तु त्वया रिपूञ्जित्वा तन्नार्यों हृता इति निखिलरिपुविजयः पर्यायेण प्रतिपाद्यते ॥ प्रकारान्तरमाह
यत्रैकमनेकस्मिन्ननेकमेकत्र वा क्रमेण स्यात् ।
वस्तु सुखादिप्रकृति क्रियेत वान्यः स पर्यायः ॥ ४४ ॥ यत्रेति । अनेकस्मिन्नाधारे क्रमेणैकं वस्तु यत्र स्वयमेव स्यात्स पर्यायः। अथवैकस्मिन्नाधारेऽनेकं यत्र स्यात्सोऽपि पर्यायः। कीदृशमेकमनेकं वा वस्त्वित्याह-सुखादिप्रकृति । सुखदुःखादिस्वरूपमित्यर्थः । स्यादिति कर्तृनिर्देशात्कर्मण्यप्राप्तं पर्यायत्वमाहक्रियेत वेति । तदेवं चतुर्विधः पर्यायः ॥ उदाहरणमाह
कमलेषु विकासोऽभूदुदयति भानावुपेत्य कुमुदेभ्यः ।
नभसोऽपससार तमो बभूव तस्मिन्नथालोकः ॥ ४५ ॥ कमलेष्विति । अत्रैको विकासोऽनेकस्मिन्वस्तुनि कुमुदकमलाख्ये क्रमेण भवति । तथैकस्मिन्नभसि तमः प्रकाशश्च । अनेकवस्तु सुखरूपम् । एते कर्तर्युदाहरणे ॥