________________
७ अध्यायः]
काव्यालंकारः।
स्तयोर्विकारहेतुविकारयोः प्रतिबन्धं च कार्यकारणभावं गमयति, असावेवंरूपो भावनामालंकारो भण्यते । भवत्यस्मादभिप्रायनिश्चय इति कृत्वा । ननु विरुद्धमिदम् । अप्रतिबद्धश्चेत्कथं हेतुरथ हेतुः कथमप्रतिबद्धो नाम । अपि च योऽप्रतिबद्धन हेतुना जन्यते स कुतस्तत्प्रतिबन्धं गमयति, विद्यते चेत्प्रतिबन्धो न त_प्रतिबद्धो हेतुरिति । सत्यमेतत् । किं तु महाकविलक्ष्यमेवंविधं दृश्यतेऽनुभूयते च । न च दृष्टे किंचिदनुपपन्नं नाम ॥ निदर्शनमाह
ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ३९ ॥ ग्रामेति । कस्याश्चित्तरुण्या नववञ्जुलमञ्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमालिन्यमभवदित्यर्थः । वञ्जुलो वृक्षविशेषः । अत्र विकारो मुखमालिन्यं तस्य हेतुर्वञ्जुलमञ्जरीदर्शनं तच्चाप्रतिबद्धम् । सर्वदा तद्दर्शने तदभावादिति । तच्च मालिन्यं तरुण्या भावं प्रतिपत्तुः प्रकाशयति । नूनमनया तस्य तरुणस्य वञ्जलगहने संकेतोऽकारि, कर्मान्तरव्यासङ्गाच न तत्र संप्राप्ता, तं च मञ्जर्या गतप्रत्यागतं विज्ञाय सुखाद्वञ्चितास्मीति खिन्ना संपन्ना । मुखमालिन्यं चास्य मञ्जरीसनाथकरत्वस्य प्रतिबन्धं गमयति । अन्यथा कथं तद्दर्शनेन तदुत्पद्यते ॥ प्रकारान्तरमाह
अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम् ।
अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ॥ ४०॥ अभिधेयमिति । यद्वाक्यं कर्तृ, तदेव पदारूढमेवाभिधेयं वाच्यमभिदधानं प्रतिपादयत्सदर्थान्तरं वक्रभिप्रायरूपं गमयति सोऽपरोऽन्यो भावभेदः । कीदृशमर्थान्तरम् । तेन पदारूढेनार्थेनासदृशा विलक्षणा गुणदोषा विधिप्रतिषेधादयो यस्य तत्तथोक्तम् । एतेन चान्योक्तिसमासोक्त्योर्भावत्वं निषिद्धम् । तत्र हीतिवृत्तसादृश्यं वर्तते । औपम्यभेदात्तयोरिति ॥ निदर्शनमाह
एकाकिनी यदबला तरुणी तथाह__ मस्मिन्गृहे गृहपतिश्च गतो विदेशम् । किं याचसे तदिह वासमियं वराकी
___ श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ ४१ ॥ एकाकिनीति । तरुणपथिकस्य वासं याचमानस्य काचित्साभिलाषा योषिदिदं प्रकटप्रतिषेधार्थ वाक्यमाह । एतेन चोक्तपदार्थेन विलक्षणो वासानुमतिविधिलक्षणो भावोऽवगम्यते ॥