________________
काव्यमाला।
गवाक्षादलक्तकाङ्कां पदवी ततान ॥' इत्यादि । हीनपात्राणां यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादकस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' एवमन्यदपि द्रष्टव्यमिति ॥ अथ यथासंख्यमाह
निर्दिश्यन्ते यस्मिन्ना विविधा ययैव परिपाट्या । .
पुनरपि तत्प्रतिबद्धास्तयैव तत्स्याद्यथासंख्यम् ॥ ३४ ॥ निर्दिश्यन्त इति । यत्र विविधा नानारूपा अर्था ययैव परिपाट्या येनैव क्रमेण पूर्व निर्दिश्यन्ते पुनरपि तयैव परिपाट्या तत्प्रतिबद्धास्तेषु पूर्वनिर्दिष्टेषु विशेष्यस्य विशेषणभावेन प्रतिबद्धास्तदनुयायिनो निर्दिश्यन्ते तद्यथासंख्यं स्यात् । अर्था इति बहुवचनस्यात. त्रत्वाद्वयोरपि यथासंख्यं भवति । ययैव परिपाट्येति परिपाटी कवेः क्रमविवक्षा गृह्यते ॥ अथैतस्यैव विशेषार्थमाह
तद्विगुणं त्रिगुणं वा बहुद्दिष्टेषु जायते रम्यम् ।
यत्तेषु तथैव ततो द्वयोस्तु बहुशोऽपि बध्नीयात् ॥ ३५ ।। तदिति । तद्यथासंख्यं बहुषूद्दिष्टेषु प्रधानार्थेषु यद्यस्माद्विगुणं त्रिगुणं वा रम्यं जायते, तस्माद्धेतोस्तेषूद्दिष्टेषु तथैव द्विस्त्रिा बनीयात् । नान्यथा। द्वयोः पुनरुद्दिष्टयोर्बहुशोऽपि बध्नीयात् । सुखावहत्वादिति ॥ तत्र त्रिगुणोदाहरणमाह
कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥ ३६ ॥ कज्जलेति । अत्र हरिहरब्रह्माणस्त्रय उद्देशिनः । त्रिविशेषणयोगाच त्रैगुण्यम् ॥ द्वयोर्बहुगुणोदाहरणमाह
दुग्धोदधिशैलस्थौ सुपर्णवृषवाहनौ घनेन्दुरुची ।
मधुमकरध्वजमथनौ पातां वः शाशूलधरौ ॥ ३७॥ दुग्धेति । अत्र मधुमथनमकरध्वजमथनौ द्वावुद्देशिनौ, चत्वारि तद्विशेषणानीति ॥ अथ भावः
यस्य विकारः प्रभवन्नप्रतिबद्धेन हेतुना येन ।
गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ॥ ३८॥ यस्येति । यस्य विकारवतो येनाप्रतिबद्धनानैकान्तिकेन हेतुना विकारः कार्य प्रभवनुत्पाद्यमानस्तस्य विकारवतः संबन्धिनमभिप्रायं प्रतिपत्तुर्गमयति, तथा स एव विकार