________________
७ अध्यायः ]
काव्यालंकारः।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' इत्यादि । क्रियाव्यापारो यथा'प्रहरकमपनीय खं निदिदासतोच्चैः प्रतिपदमुपहूतः केनचि जागृहीति । मुहुरविशदवर्णा निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥' इत्यादि । आदिग्रहणाद्विभववेषादिकं च द्रष्टव्यम् । यथा-वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं प्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्धाध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥' इत्यादि । अथ वास्तवस्य जातेश्च को विशेषः, यो वृक्षस्य धवस्य च । वास्तवं हि वस्तुखरूपकथनम् , तच सर्वेष्वपि तद्भेदेषु सहोक्त्यादिषु स्थितम् । जातिस्त्वनुभवं जनयति । यत्र परस्थं खरूपं वर्ण्यमानमेवानुभवमिवैतीति स्थितम् ॥ अथैतद्विशेषप्रतिपादनार्थमाहशिशुमुग्धयुवतिकातरतिर्यक्संभ्रान्तहीनपात्राणाम् ।
सा कालावस्थोचितचेष्टासु विशेषतो रम्या ॥ ३१ ॥ शिश्विति । सा जातिः शिशुप्रभृतीनां याः कालोचिता अवस्थोचिताश्च चेष्टाः क्रियास्ताखतिशयतो रम्या भवति ॥ तत्र शिशूनां यथा
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः ।
कृतमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः ॥ ३२ ॥ धूलीति । एषा शिशूनामवस्थोचिता चेष्टा । कालोचिता तु स्वयं द्रष्टव्या ॥ मुग्धयुवतीनां यथाहरति सुचिरं गाढाश्लेषे यदङ्गकमाकुला
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने । यदतिबहुशः पृष्टा किंचिद्रवीत्यपरिस्फुटं
रमयतितरां तेनैवासौ मनोऽभिनवा वधूः ॥ ३३ ॥ हरतीति । एषा मुग्धयुवतीनामवस्थोचिता चेष्टा । मुग्धग्रहणं मुग्धयुवतीनामेव जातिसौन्दर्य न प्रौढानां चेष्टाखिति ज्ञापनार्थमिति । कातरायुदाहरणानि ग्रन्थान्तराद्र्ष्टव्यानि । 'नष्टं वर्षवरैर्मनुष्यगणनाभावादकृत्वा त्रपामन्तः कञ्चुकिकञ्चकस्य विशति त्रासादयं वामनः । त्रस्यद्भिः सहसा निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ एषा कातरचेष्टा । तिरश्चां यथा-'उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण । आकुल्यकारि कटकस्तुरगेण तूर्णमश्वति विद्रुतमनुद्रवतान्यमश्वम् ॥' अतर्कितोपनतभयसुखदुःखकुतूहलादिहृतचित्तानां संभ्रान्तानां यथा-'प्रसाधिकालम्बितमप्रपादमाक्षिप्य काचिद्रवरागमेव। उत्सृष्टलीलागतिरा