SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८० काव्यमाला । अथ सदसतोर्योगः कमलवनेषु तुषारो रूपविलासादिशालिनीषु जरा । रमणीष्वपि दुश्चरितं धातुर्लक्ष्मीश्च नीचेषु ॥ २६ ॥ कमलेति । सुगममेव योजनम् ॥ प्रकारान्तरमाह व्यधिकरणे वा यस्मिन्गुणक्रिये चैककालमैकस्मिन् । उपजायेते देशे समुच्चयः स्यात्तदन्योऽसौ ॥ २७ ॥ व्यधिकरण इति । वाशब्द एवशब्दार्थे भिन्नक्रमः । ततश्च यस्मिसन्मुच्चये गुणक्रिये भिन्नाधिकरणे एकस्मिन्देशे समकालमुपजायेते असौ समुच्चयस्तदन्यः । ततः पूर्वसमुच्चयादपर इत्यर्थः । गुणक्रिये एव व्यधिकरणे इत्यवधारणं तु गुणक्रियाधिकरणयोर्वस्तुनोदेशाधिकरणमेकमेवेति कृत्वा ॥ निदर्शनमाह विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ २८ ॥ विदलितेति । अत्र नैर्मल्यगुणस्य बलमाधारो मालिन्यस्य तु खलमुखानीति । चशब्दावेककालत्वसूचनार्थौ । एवं गुणसमुच्चयः ॥ क्रियासमुच्चयस्तु यथा— दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २९ ॥ दैवादिति । अत्र वियोगक्रिया वियोगिनि स्थिता, समुपागमनक्रिया तु वर्षाकाले ॥ अथ जाति: संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥ ३० ॥ संस्थानेति । यस्य पदार्थस्य यत्संस्थानादि यादृशं भवति तस्य यदनन्यथा तेनैव प्रकारेण कथनं सा जातिरिति योगः । यच्छब्दस्तु सर्वनामत्वात्सामान्येन सर्वसंग्रहार्थः । विशेषरूपतया हि तत्संस्थानादि कथयितुमानन्त्यान्न शक्यते । अनुक्तं तर्हि कथं कवि ज्ञातव्यमित्याह—लोके चिरप्रसिद्धमिति । यद्यपि पुराणादिषु किंचिदुक्तं तथापि लोकरूढिवशात्सम्यक्तदवगम इति । तत्र संस्थानं स्वाभाविकं रूपम् । यथा - 'एतत्पूतनचक्रमक्रमकृतग्रासार्धमुक्तैत्रृकानुत्पुष्णत्परितो नृमांसविघसैराघर्धरं क्रन्दतः । खर्जूरद्रुमदनजङ्घमसितत्वग्बद्धविष्वक्ततस्नायुग्रन्थि घनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥' इत्यादि । अवस्थानं स्थानकादि । यथा - 'स दक्षिणापाङ्ग निविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy