________________
७ अध्यायः ]
काव्यालंकारः ।
७९
दुर्गमिति । निगदसिद्धमेव । अत्रैकं वस्त्वत्रशब्दवाच्यम् । अनेकं तु त्रिकूटदुर्गादिकम् । शोभनत्वेनोत्कृष्टं यथा - 'उमा वधूर्भवान्दाता याचितार इमे वयम्' इत्यादि । अशोभनत्वेन यथा—'क्लीबो विरूपो मूर्खश्च मर्महा मत्सरान्वितः । चित्रं तथापि न धनी दुर्भगः खलु मानवः ॥' इति । गुणाद्युत्कर्षोदाहरणानि स्वयमूह्यानि ॥
सुखावहाद्युदाहरणान्याह -
सुखमिदमेतावदिह स्फारस्फुरदिन्दुमण्डला रजनी ।
सौधतलं काव्यकथा सुहृदः स्निग्धा विदग्धाश्च ॥ २१ ॥
सुखमिति । एष सुखावहद्रव्यसमुच्चय आधारोऽत्रेहशब्दवाच्यः । वस्तूनि सितरजनप्रभृतीनि ॥
तरलत्वममालिन्यं पक्ष्मलतामायतिं सुमाधुर्यम् ।
आधास्यन्नस्त्रत्वं मदनस्तव नयनयोः कुरुते ॥ २२ ॥
तरलत्वमिति । कामस्त्वदीयनयनयोरस्त्रत्वं करिष्यं स्तरलत्वादीनि कुरुत इति तात्पर्यार्थः । एष गुणसमुच्चयः । तरलत्वादिगुणानां सुखावहानां नयनाधारे समुच्चितत्वादिति ॥ प्रस्फुरयन्नधरोष्ठं गात्रं रोमाञ्चयन्गिरः स्खलयन् ।
मण्डयति रहसि तरुणीः कुसुमशरस्तरलयन्नयने ॥ २३ ॥
प्रस्फुरयन्निति । एष क्रियासमुच्चयः । तरुणीष्वाधारेषु स्फुरणादिक्रियाणां समुच्चि - तत्वादिति । द्रव्यादीनां तूद्देशो वस्तुग्रहणेन कृतः । जातिसमुच्चयस्तु न संभवति । नह्येकत्रानेका जातिर्विद्यते । दुःखावह इत्याद्युदाहरणानि तु 'राज्यभ्रंशो वने वासो दूरे माता पिता मृतः । एकैकमपि तद्दुःखं यदब्धिमपि शोषयेत् ॥' इत्यादीनि द्रष्टव्यानि ॥ अथ सतोर्योगः
सामोदे मधु कुसुमे जननयनानन्दने सुधा चन्द्रे |
कचिदपि रूपवति गुणा जगति सुनीतं विधातुरिदम् ॥ २४ ॥ सामोद इति । स्रष्टुरिदं सुनीतं सुकृतं भद्रकं यत्सामोदकुसुमादिषु मध्वादीनां सतां - योगः कृत इत्यर्थः ॥
अथासतोर्योगः
आलिङ्गिताः करीरैः शम्यस्तप्तोषपांसुनिचयेन ।
मरुतोऽतिखरा ग्रीष्मे किमतोऽन्यदभद्रमस्तु मरौ ॥ २५ ॥
आलिङ्गिता इति । ग्रीष्मकाले मरुदेशे यत्करीरैः शमीवृक्षा मिश्रीभूताः । तथा तप्तानामूषपांसूनां चयैर्मिश्राः प्रचण्डा वायवः । किमतोऽन्यदपरमभद्रमशिवम् । इत्य-सतोर्योगः ॥