SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७८ काव्यमाला । न सार्धं क्षयं गच्छति । अत्र संतापस्य वराकीक्षयस्य च शब्देन प्राधान्यम् । अपराधस्नेहयोस्तु तत्कारणयोरप्राधान्यम् । अत एव तृतीया । तत्त्वतस्तु भवदपराधा वर्धन्ते तस्याः संतापेन सह । भवत्स्नेहश्च क्षीयते तया सहेति । यदा त्वेवमुच्यते तदा पूर्वैव सहोक्तिरिति । पूर्वस्यां कर्तुः प्राधान्यं क्रियमाणस्य गुणभावः । इह तु क्रियमाणस्य प्राधान्यं कुर्वतस्त्वप्राधान्यमिति भेदः ॥ प्रकारान्तरमाह - अन्योन्यं निरपेक्षौ यावर्थावेककालमेकविधौ । भवतस्तत्कथनं यत्सापि सहोक्तिः किलेत्यपरे ॥ १७ ॥ अन्योन्यमिति । यावर्थौ पूर्वोक्तसहार्थाभावात्परस्परं निरपेक्षावेकविधौ समानधर्मयुक्तौ तुल्यकालं भवतस्तयोर्यत्सह कथनं सापि किल सहोक्तिरित्यपरे केचित् । किलशब्दोऽत्रारुचौ । अरुचिश्वोक्तसहार्थाभावादिति ॥ 1 निदर्शनमाह कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि । सह कमलैर्ललनानां मानः संकोचमायाति ॥ १८ ॥ कुमुददरिति । प्रदोषवर्णनमेतत्सुगममेव । अत्र न कुमुददलैश्चक्रवाकाणां तैर्वा तेषां विघटना क्रियते । अपि तु कालेन । तथा न कमलैर्मानस्य मानेन वा तेषां संकोचो जन्यते । अपि तु रात्र्या, शशिना वा । औपम्यं न विवक्षितम् ॥ 'अथ समुच्चयमाह - यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव । ज्ञेयः समुच्चयोऽसौ त्रेधान्यः सदसतोर्योगः ॥ १९ ॥ यत्रेति । यत्र समुच्चये एकत्राधारेऽनेकं वस्तु द्रव्यगुणक्रियाजातिलक्षणं परमुत्कृष्टं शोभनत्वेन वा स्यात्स समुच्चयः । तथा सुखावहायेवेति । सुखमावहत्युत्पादयतीति सुखावहम् । आदिग्रहणाद्दुःखावहादिपरिग्रहः । एवशब्दः समुच्चये । सुखावहादि च यत्रानेकं द्रव्यादि स्यात्सोऽपि समुच्चय इत्यर्थः । तथा त्रेधान्यः सदसतोर्योगः । त्रेधा त्रिविधः, अन्यः प्रकारान्तरेण समुच्चयः । कीदृश: । सदसतोर्योग इति । सतोः सुन्दरयोर्योग इत्येकः । असतोरसुन्दरयोर्योग इति द्वितीयः । सदसतोः सुन्दरासुन्दरयोर्योगस्तृतीयः । अत्र च सदसतां योग इति बहुवचनेन निर्देशे न्याय्ये द्विवचननिर्देशो द्वयोरेव सतोरसतोः सदसतोर्वा समुच्चयो नान्यथा इति ख्यापनार्थः ॥ एतदुदाहरणानि क्रमेणाह— दुर्गं त्रिकूटं परिखा पयोनिधिः प्रभुर्दशास्यः सुभटाश्च राक्षसाः । नरोऽभियोक्ता सचिवैः प्लवंगमैः किमत्र वो हास्यपदे महद्भयम् २०
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy