SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७७ ७ अध्यायः] काव्यालंकारः। हेतुः कारणमाला व्यतिरेकोऽन्योन्यमुत्तरं सारम् । सूक्ष्मं लेशोऽवसरो मीलितमेकावली भेदाः ॥ १२ ॥ (युग्मम्) तस्य वास्तवस्य वक्ष्यमाणलक्षणाः सहोक्त्यादयस्त्रयोविंशतिरिमे भेदा भवन्ति ॥ सांप्रतमेषां परिपाट्या लक्षणमाह-तत्र सहोक्तिः भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथाभूतम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥ १३ ॥ भवतीति । योऽर्थः कर्तृभूतः प्रधानं यथारूपो यादृगात्मा यद्गुणयुक्तो भवति । कथं भवति–अपरमन्यमर्थ कर्मलक्षणमप्रधानं तथाभूतम् । तथाशब्दः प्रकारे । तथाप्रकारमात्मगुणसदृशं कुर्वन्नेवेति । एवकारोऽन्यकालनिवृत्त्यर्थः । कुर्वन्नेव भवति । न तु भूत्वा करोति, कृत्वा भवतीत्यर्थः । अतस्तस्य कुर्वतोऽर्थस्य तेन कार्येणार्थन समं समाना तुल्या योक्तिः सा सह सार्धमुक्तिः सहोक्तिः । हेतुहेतुमद्भावोऽत्र सहार्थः । एकवचनमिहातन्त्रम् । तेन बहूनामप्यर्थानां सहोक्तिर्भवतीति ॥ निदर्शनमाह कष्टं सखे व यामः सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बभित्तिभरः ॥ १४ ॥ कष्टमिति । कश्चिद्विरही मित्रमिदमाह-हे सखे, कष्टं व व्रजामः । यतस्तस्यास्तरुण्याः स्तनकलशभरो नितम्बभित्तिभरश्चानुदिनं सकलस्य जगतो यो मन्मथस्तेन सह वृद्धिमुपैति । तां प्रति कामो वर्धत इत्यर्थः । अत्र प्रधानभूतः कुचकलशनितम्बभित्तिभरो वृद्धिगुणयुक्तोऽपरमर्थ मन्मथाख्यं वृद्धियुक्तं करोतीति । ततस्तस्य तथा कुर्वतः सहोक्तिरिति लक्षणयोजना ॥ अस्या एव प्रकारान्तरमाह यो वा येन क्रियते तथैव भवता च तेन तस्यापि । अभिधानं यत्क्रियते समानमन्या सहोक्तिः सा ॥ १५ ॥ य इति । योऽर्थः कर्मभूतो येन कर्तृभूतेन क्रियते तस्य कर्मभूतस्य तेन कर्तृभूतेनाथेन । कीदृशेन । तथैव तादृशधर्मयुकेन भवता। सहाभिधानं यक्रियते सान्या सहोक्तिः । वाशब्दः प्रकारार्थः । प्रकारान्तरेण सहोक्तिरित्यर्थः ॥ उदाहरणमाह भवदपराधैः सार्धे संतापो वर्धतेतरां तस्याः । क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन ॥ १६ ॥ भवदिति । कस्याश्चिन्मानिन्याः सखी नायकमन्यचित्तमिदमाह-तस्यास्त्वत्कान्तायाः संतापस्त्वदीयापराधैः सहातीव वर्धते । अत एव सा वराकी त्वदीयेन स्नेहे
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy