SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] काव्यालंकारः । ९५ किमिति । इति प्रश्नादुत्तरम् । अथास्य परिसंख्यायाश्चायं विशेषो यत्तत्र नियमप्रतीतिरेतदेवात्रैव वेति । इह तु प्रश्नादुत्तरमात्रम्, न तु नियमप्रतीतिः ॥ अथ सारम् यत्र यथासमुदायाद्यथैकदेशं क्रमेण गुणवदिति । निर्धार्यते परावधि निरतिशयं तद्भवेत्सारम् ॥ ९६ ॥ यत्रेति । यो यः समुदायो यथासमुदायम्, यो य एकदेशो यथैकदेशमित्यव्ययीभावः । यथासमुदायाद्यथैकदेशं क्रमेण निर्धार्यते पृथक्क्रियते । कथम्, परावधि । परमुत्कृष्टतममेकदेशमवधिं कृत्वा । निर्धारणं च गुणक्रियाजातिभिः संभवति । अत आह—गुणवदिति । गुणवत्त्वेन, न तु क्रियाजातिभ्याम् । क्रमेणेति चाक्रमनिवृत्त्यर्थम् । तेनेह सारत्वं न भ• वति यथा - - 'नदीषु गङ्गा नगरीषु काची पुष्पेषु जाती रमणीषु रम्भा । सदोत्तमत्वं पुरुषेषु विष्णुरैरावणो गच्छति वारणेषु ॥ नह्यत्र शृङ्खलाकटकवन्निर्धारणम् । कस्तोऽलंकारः, साराभास इत्युच्यते । सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविभिर्व्यवस्था • पितम् । निरतिशयग्रहणमतिशयालंकारत्वनिवृत्त्यर्थम् । अन्यरूपत्वात्तस्य । सारत्वमुत्क • स्तत्र चातिशयालंकाराशङ्केति । अथवाप्याक्षेपिकगुणवत्त्व निवृत्त्यर्थमिति ॥ उदाहरणम् – राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ९७ ॥ राज्य इति । अत्र सप्ताङ्गराज्य समुदायाद्वसुधाख्यैकदेशस्य, ततोऽपि पुरस्येत्यादि गुणवत्त्वेन निर्धारणम् ॥ अथ सूक्ष्मम् - यत्रायुक्तिमदर्थो गमयति शब्दो निजार्थसंबद्धम् । अर्थान्तरमुपपत्तिमदिति तत्संजायते सूक्ष्मम् ॥ ९८ ॥ यत्रेति । प्रतिपाद्येऽर्थे यस्य युक्तिर्न विद्यतेऽसावयुक्तिमदर्थः शब्दो यत्रात्मीयार्थसंबद्धमर्थान्तरं गमयति प्रत्यापयति तत्सूक्ष्मम् । ननु यस्य निजार्थेऽपि युक्तिर्नास्ति तस्य कुतस्तत्संबन्धे स्यादित्याह - उपपत्तिमदिति । इतिर्हेतौ । यतोऽर्थान्तरे तत्संबद्धे घटना विद्यते । अत एव सूक्ष्मावगमकारणात्सूक्ष्म मिति नाम ॥ उदाहरणमाह - आदौ पश्यति बुद्धिर्व्यवसायोऽकालहीनमारभते । धैर्यं व्यूढमहाभरमुत्साहः साधयत्यर्थम् ॥ ९९ ॥ आदाविति । व्यवसायः कर्मण्युद्योगः । धैर्यमसंमोहः । उत्साहः शक्तिः । अत्र पुनर्बुद्धेर्दर्शनम्,व्यवसायस्यारम्भः, धैर्यस्य भरत हनम्, उत्साहस्य च साधनमचेतनत्वान्न घटते ।
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy