________________
काव्यमाला।
इत्येते शब्दा यथोक्तेऽर्थेऽनुपपन्नाः । करणभावो ह्येषां घटते, न कर्तृत्वम् । बुद्ध्यादिसंबद्धे तु देवदत्तादौ सर्वमुपपद्यत इति कृत्वा । यदा बुद्धिमानर्थ पश्यति तदा बुद्धिः पश्यतीत्याधुच्यत इति ॥ अथ लेश:दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः ।
अभिधीयते तथाविधकर्मनिमित्तः स लेशः स्यात् ॥ १० ॥ दोषीभाव इति । यस्मिन्गुणस्य दोषभावो दोषस्य च गुणभावो विधीयते । कीदृशः । तथाविधं गुणस्य दोषीकरणं दोषस्य गुणीकरणं वा कर्म निमित्तं यस्य स तथोक्तः । वाशब्द एकयोगेऽपि लेशत्वख्यापनार्थः । अन्यथा यत्रोभययोगस्तत्रैव स्यादिति ॥ उदाहरणमाह
अन्यैव यौवनश्रीस्तस्याः सा कापि दैवहतिकायाः ।
मनाति यया यूनां मनांसि दूरं समाकृष्य ॥ १०१ ॥ अन्येति । अत्र यौवनस्य गुणस्यापि युवचेतोमथनाद्दोषीभावः ॥ अथ दोषस्य गुणभावोदाहरणमाह
हृदयं सदैव येषामनभिज्ञं गुणवियोगदुःखस्य । ।
धन्यास्ते गुणहीना विदग्धगोष्ठीरसापेताः ॥ १०२ ॥ . हृदयमिति । सुगममेव ॥ अथावसरः
अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणं क्रियते ।
अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः ॥ १०३ ॥ अर्थान्तरमिति । तत्रार्थस्य न्यूनस्य यद्युत्कृष्टमुदात्तं सशृङ्गारादिकं वार्थान्तरमुपलक्षणं क्रियते सोऽवसरालंकारः । किमर्थं क्रियत इत्याह-तस्योत्कृष्टत्वादेरभिधानप्रसङ्गेन । उत्कृष्टत्वं सरसत्वं वा न्यूनस्याभिधातुमित्यर्थः ॥ उदाहरणम्
तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः ॥ १०४ ॥ तदिति । अत्र साक्षाद्रामवासस्तत्कृतश्च राक्षसक्षय उत्कृष्टो वनस्योत्कृष्टत्वख्यापनायोपलक्षणत्वेन कृतः ॥ द्वितीयोदाहरणमाह
सा सिपानाम नदी यस्यां मवर्मयो विशीर्यन्ते । मज्जन्मालवललनाकुचकुम्भास्फालनव्यसनात् ॥ १०५॥ .