SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७ अध्यायः ] काव्यालंकारः । सेति । अत्र मालवतरुणीलक्षणं सटङ्गारं वस्तु सरसत्वाभिधानायोपलक्षणं सिप्रायाः कृतम् ॥ अथ मीलितम् - तन्मीलितमिति यस्मिन्समानचिह्वेन हर्षकोपादि । अपरेण तिरस्क्रियते नित्येनागन्तुकेनापि ॥ १०६ ॥ तदिति । तन्मीलितमित्यलंकारः, यत्र हर्षकोपभयाद्यमपरेण वस्तुना हर्षादितुल्यचि - ह्वेन स्वाभाविकेन कृत्रिमेण वा तिरस्क्रियते । अपिर्विस्मये । इतिः प्रकारे ॥ उदाहरणम् तिर्यक्प्रेक्षणतरले सुस्निग्धे च स्वभावतस्तस्याः । अनुरागो नयनयुगे सन्नपि केनोपलक्ष्यत ॥ १०७॥ तिर्यगिति । अत्र नयनयुगस्य स्वाभाविकतिर्यक्प्रेक्षणादियुक्तस्य यादृशी चेष्टा ताहश्येवानुरागयुक्तस्येत्यसौ नित्येन तेनापहूयते ॥ मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥ १०८ ॥ मदिरेति । अत्र कोपसदृशचिह्नेन मदिरामदेनागन्तुकेन कोपस्तिरस्क्रियते ॥ अथैकावली एकावलीति सेयं यत्रार्थपरम्परा यथालाभम् । आधीयते यथोत्तरविशेषणा स्थित्यपोहाभ्याम् ॥ १०९ ॥ एकेति । सेयमेकावलीनामालंकारो यत्रार्थानां परम्परा यथालाभमाधीयते न्यस्यते । कीदृशी सा । यो य उत्तरोऽर्थः स स पूर्वस्य विशेषणं यस्यां सा तथाविधा । एतेन समुच्चयस्यैकावलीत्वं निषिद्धम् । कथं यथोत्तरविशेषणा, कथं वाधीयत इत्याह — स्थित्यपोहाभ्यामिति । स्थितिर्विधिरपोहो व्यवच्छेदस्ताभ्यामिति ॥ यथाक्रममुदाहरणे— सलिलं विकासिकमलं कमलानि सुगन्धिमधुसमृद्धानि । मधु लीनालिकुलाकुलमलिकुलमपि मधुररणितमिह ॥ ११० ॥ सलिलमिति । अत्र सलिलाद्यर्थपरम्परा यथोत्तरकमलादिविशेषणा यथालाभं विधिमुखेन निर्दिष्टा ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy