SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। नाकुसुमस्तरुरस्मिन्नुद्याने नामधूनि कुसुमानि । नालीनालिकुलं मधु नामधुरकाणमलिवलयम् ॥ १११ ॥ नेति । अत्र निषेधरूपेण तर्वादिकार्यपरम्परा यथोत्तरकुसुमादिविशेषणा निहितेति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः सप्तमोऽध्यायः समाप्तः । __अष्टमोऽध्यायः। वास्तवं सप्रभेदमाख्यायेदानीमौपम्यमाह सम्यक्प्रतिपादयितुं खरूपतो वस्तु तत्समानमिति । वस्त्वन्तरमभिदध्याद्वक्ता यस्मिंस्तदौपम्यम् ॥ १॥ सम्यगिति । यत्र प्रस्तुतं वस्तु खरूपविशेषेग सम्यगनन्यथा प्रतिपादयितुं वस्त्वन्तरमप्रस्तुतं वक्ताभिदध्यात्तदौपम्यं नामालंकारः । ननु वस्त्वन्तरोक्त्या कथं वस्तुखरूपं विशेषतः प्रतिपाद्यत इत्याह-तत्समानमिति । इतिहेतौ । यतो वस्त्वन्तरं प्रकृतवस्तुसदृशमतस्तेन तत्सम्यक्प्रतिपाद्यते । 'सर्वः खं खं रूपम्' (७७) इत्यादिना सम्यक्त्वे लब्धे सम्यग्ग्रहणं विशिष्टसम्यक्त्वार्थम् । अभिदध्यादिति । कर्तृपदेनैव वक्तरि लब्धे वक्तृग्रहणं रक्तविरक्तमध्यस्थादिवक्तविशेषप्रतिपत्त्यर्थम् । तेन यो यादृशो वक्ता येन खरूपेण वक्तुमिच्छति तादृशमेव वस्त्वन्तरमभिदध्यात्तदौपम्यम् । रक्तो यथा'अमृतस्येव कुण्डानि सुखानामिव राशयः। रतेरिव निधानानि योषितः केन निर्मिताः॥' इत्यादि । विरक्तो यथा-'एता हसन्ति च रुदन्ति च कार्यहेतोर्विश्वासयन्ति च नरं न च विश्वसन्ति । तस्मानरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः॥' इत्यादि । मध्यस्थस्तु स्वरूपमात्रं वक्ति यथा-'दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः। सुविश्वस्तेऽप्यविश्वस्ता भवन्ति च चरा इव ॥' यत्रोपमानोपमेयभावः श्रौतः प्रातीतिको चा तदौपम्यमिति तात्पर्यम् । तेन संशयादयोऽप्येतद्भेदा एवेति ॥ सामान्यमभिधाय तद्भेदानाह उपमोत्प्रेक्षारूपकमपङतिः संशयः समासोक्तिः । मतमुत्तरमन्योक्तिः प्रतीपमर्थान्तरन्यासः ॥ २ ॥ उभयन्यासभ्रान्तिमदाक्षेपप्रत्यनीकदृष्टान्ताः । पूर्वसहोक्तिसमुच्चयसाम्यस्मरणानि तद्भेदाः ॥ ३ ॥ उपमेति । उभयेति । तस्यौपम्यस्योपमादय एते एकविंशतिर्भेदाः ॥ यथोद्देशस्तथा लक्षणमिति पूर्वमुपमालक्षणमाह उभयोः समानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ॥४॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy