________________
८ अध्यायः]
काव्यालंकारः। उभयोरिति । उभयोः प्रस्तावादुपमानोपमेययोः समानं साधारणमेकमद्वितीयं गुणादि गुणसंस्थानादि यथा येन प्रकारेणैकत्रोपमाने सिद्धं प्रतीतम्, तथा तेनैव प्रकारेणान्यत्रार्थ उपमेये साध्यत इत्येवं प्रकारोपमा।सा च त्रेधा-वाक्योपमा,समासोपमा,प्रत्ययोपमेति। अभिधानस्य मानभेदेनेत्यत्र चैकत्रेति सामान्योक्तावपि 'प्रसिद्धमुपमानम्' इति न्यायादुपमानं लभ्यते ॥ अथैतद्भेदत्रयमाह
वाक्योपमात्र षोढा तत्र त्वेका प्रयुज्यते यत्र ।
उपमानमिवादीनामेकं सामान्यमुपमेयम् ॥ ५ ॥ वाक्येति । अत्रोपमायां वाक्योपमा तावत्षट्प्रकारेति । एतच्च ब्रुवता वाक्योपमा प्रथमेत्युक्तं भवति । तेन पृथगुद्देशाभावो न दोषाय । तत्र तासु षट्सु मध्यादियमेका प्रथमा, यस्यामुपमानःप्रयुज्यते।तथेवादीनामिववत्सदृशयथातुल्यनिभादीनां साम्यवाचकानां मध्यादेकम् । तथा सामान्यमुपमानोपमेययोः साधारणधर्माभिधायकं पदम् । तथोपमेयमिति चतुष्टयम् । तुशब्दो लक्षणान्तरेभ्योऽस्य विशेषणार्थः । ननु यदीवादीनामेकमेव प्रयुज्यते कथं तर्हि 'दिने दिने सा परिवर्धमाना' इत्यादिष्वनेकेषां प्रयोगः । सत्यम् । औपम्यानामनेकत्वात्। अत्र ह्यनेकं कारकमुपमानोपमेयतया निर्दिष्टम् । यथा'ततः प्रतस्थे कौबेरी भास्वानिव रघुर्दिशम् । शरैरुरिवोदीच्यानुद्धरिष्यबसानिव ॥' अत्रेवादीनामपि बहूनां प्रयोगो न्याय्यः। एवं हि परिपूर्णमौपम्यं भवति । यत्र तु बहूनामप्यौपम्य एक एवेवादिः प्रयुज्यते तत्र गतार्थवादप्रयोगो बोद्धव्यः । यथा-'सा भूधराणामधिपेन तस्याम्' इत्यादौ । अत्र हि नीताविव मेनायाम, उत्साहगुणेनेव नगेन, संपदिव पार्वती जनितेति व्याख्यानम् । इत्यलं विस्तरेण ॥
उदाहरणमाह___कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम् । - अलिमालेव सुनीला तवैव मदिरेक्षणे कबरी ॥ ६ ॥
कमलमिति । अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्स्वरूपतः कमलादिगतचारुस्वादियुक्तं प्रतिपादयितुं वस्त्वन्तरं कमलादिकं तत्समानत्वात्प्रयुक्तवानित्यौपम्यम् । तथोभयोः कमलमुखयोः समानमेकं चारुत्वं यथैकत्र कमले सिद्धं तथोपमेये मुखे साध्यत इत्युपमालक्षणम्। तथा कमलमुपमानम्, इवशब्दः, चार्विति सामान्यम्, वदनमुपमेयम्, इति चतुष्टयं समस्तमिति वाक्योपमालक्षणम् । एवमन्यत्रापि लक्षणयोजना कर्तव्या ॥ अथ द्वितीयामाह
इयमन्या सामान्यं यत्रेवादिप्रयोगसामर्थ्यात् ।
गम्येत सुप्रसिद्धं तद्वाचिपदाप्रयोगोऽपि ॥ ७ ॥ इयमिति । इयमन्या द्वितीया वाक्योपमा, यस्यां सामान्यं साधारणो धर्मस्तद्वा