________________
१००
काव्यमाला ।
चिपदाप्रयोगेऽपि गम्यते । नन्वप्रयुक्तस्य पदस्य कथमर्थो गम्यत इत्याह- इवादिप्रयोगसामर्थ्यात् । इवादयो हि कस्य सादृश्यप्रतिपादनाय प्रयुज्यन्ते । यदि च प्रयुक्तैरपि तैरसौ न गम्यते तदानर्थकस्तेषां प्रयोगः स्यात् । यद्येवमुच्छेद एव सामान्यपदप्रयोगस्येत्याह—सुप्रसिद्धमिति । लोकप्रसिद्धमेव गम्यते नान्यदिति ॥
उदाहरणमाह
शशिमण्डलमिव वदनं मृणालमिव भुजलतायुगलमेतत् । करिकुम्भाविव च कुचौ रम्भागर्भाविवोरू ते ॥ ८ ॥
शशीति । अत्र यथाक्रमं चारुत्व कोमलत्वोत्तुङ्गत्वगौरत्वान्यनुक्तान्यपि प्रसिद्धत्वा
प्रतीयन्ते ॥
तृतीया माह
वस्त्वन्तरमस्त्यनयोर्न सममिति परस्परस्य यत्र भवेत् । उभयोरुपमानत्वं सक्रममुभयोपमा सान्या ॥ ९ ॥
वस्त्वन्तरमिति । अनयोर्वस्तुनोर्वस्त्वन्तरं समं तुल्यं नास्तीत्यतः कारणाद्यस्यामुभयोरुपमानोपमेययोः क्रमेण परस्परमुपमानत्वं स्यात्सो भयोपमा । अन्या पूर्वविलक्षणा । इयमपि सामान्यस्य प्रयोगाप्रयोगाभ्यां द्विविधा ||
प्रयोगोदाहरणं स्वयमाह
शशिमण्डलमिव विमलं वदनं ते मुखमिवेन्दुबिम्बमपि ।
कुमुदमिव स्मितमेतत्स्मितमिव कुमुदं च धवलमिदम् ॥ १० ॥
1
शशिमण्डलमिति । अप्रयोगे तु यथा - 'खमिव जलं जलमिव खं हंस इव शशी शशाङ्क इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥
चतुर्थीमाह
सा स्यादनन्वयाख्या यंत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य स्वयमेव भवेदुपमानं चोपमेयं च ॥ ११ ॥
सेति । न विद्यतेऽन्वयो वस्त्वन्तरानुगमो यस्यामित्यनन्वय संज्ञा सोपमा, यस्यामेकमेव वस्तु स्वयमेवोपमानमुपमेयं चात्मन एव भवेत् । कस्मात्, अनन्यसदृशमिति हेतोः । ननु यद्यन्यस्यात्रानुगमाभावस्तत्कथमौपम्यलक्षणमुपमालक्षणं वा घटते । नैष दोषः । यतोऽनन्यसमत्वं लक्षणं वस्तुनः सम्यक्स्वरूपं च यदा युगपद्विवक्षति वक्ता तदा सम्यक्स्वरूपप्रतिपादनं वस्त्वन्तराभिधानं विना न घटते । तदभिधाने चानन्यसमत्वं दुर्घटमिति कृत्वैकमेव वस्तूपमानोपमेयरूपतया विभिद्य वक्ति । अतः सामान्यमौपम्यलक्षणमुपमालक्षणं चास्ति । वस्त्वन्तरानन्वयश्चेत्यनन्वयोपमालक्षणम् ॥