________________
८ अध्यायः]
काव्यालंकारः। सुश्लिष्टमुदाहरणमाह
आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु। .
इयमियमिव तेव च तनुः स्फारस्फुरदुरुरुचिप्रसरा ॥ १२ ॥ आनन्देति । हे करिकरोरु, त्वमिव त्वं सरसि गच्छसीत्याद्यन्वयः ॥ पञ्चमीमाह
सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम् ।
तावद्भिस्तादृग्भिः स्यादुपमान तथा यत्र ॥ १३ ॥ सेति । यैर्यादृशैर्यत्संख्यैश्च विशेषणैर्युक्तमुपमेयम् , तादृग्भिरेव तत्संख्यैश्चोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या । कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति । विशेषणैरित्यतन्त्रम् । तेनैकस्य द्वयोश्च संग्रहः । किं तु बहुभिरौज्ज्वल्यं भवति ॥ उदाहरणम्
मुखमापूर्णकपोलं मृगमदलिखितार्धपत्रलेखं ते ।
भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव ॥ १४ ॥ मुखमिति । अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेष. णद्वयोपेतम् । शशिबिम्बमुपमानमपि स्फुरत्षोडशकलं स्फुटकलकं चेति ॥ षष्ठीमाह
अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत् ।
संभाव्य सयद्यर्थ या क्रियते सोपमोत्पाद्या ॥ १५ ॥ अनुपममिति । उत्पाद्यत इत्युत्पाद्या। उत्पाद्यानामोपमा सा, या क्रियते। किं कृत्वा। उपमानमुपमानविशेषणं च संभाव्य संभवि कृत्वा । कुतः । अनुपममुपमानविकलमेतद्वस्त्विति कारणात्। कीदृशम् । अपमानमसदविद्यमानम् । असतः कथं संभव इत्याह-सयद्यर्थं यदिचेदादिशब्दसहितमित्यर्थः । उपलक्षणं च सयद्यर्थशब्दः । यस्मादभूतपूर्वासंभवादिप्रयोगेऽपि भवति । यथा माघस्य–'मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वी रुचमम्बुराशेः ॥' इत्यादि ॥ उदाहरणम्
कुमुददलदीधितीनां त्वक्संभूय च्यवेत यदि ताभ्यः। .
इदमुपमीयेत तया सुतनोरस्याः स्तनावरणम् ॥ १६ ॥ कुमुदेति । अत्र कुमुददलदीधितित्वमुपमानम्,तद्विशेषणं च्यवनं च द्वयमपि सयद्यर्थ संभावितम् । तथा-'सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम् । श्र. माम्बुबिन्दूत्करराजितं ततो मुखं रतावित्युपमीयते प्रिये ॥' 'ततो मुखं तेन तवोपमीयते