Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 53
________________ ४८ काव्यमाला। भाषेति । अयं पूर्वोक्तश्लेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरेकादिकं स्पृशति । श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः । अपिशब्दो विस्मये । प्रायोग्रहणमसाकल्यप्रतिपादनार्थम् । अन्यमलंकारं स्पृशति परं न सर्वमेवेत्यर्थः। तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्लेष उपमासमुच्चययोर्धत्ते धारयति । उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यभेदो गृह्यते ॥ नन्वत्र श्लेषवाक्यद्वये शब्दमात्रं श्लिष्टं भवति, न त्वर्थ इति साम्याभावस्ततश्च कथमुपमासमुच्चयाभ्यां स्पर्शो घटत इत्याशङ्कयाह स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमानं सामान्यमिहापि संभवतः ॥ ३२॥ स्फुटेति । स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि खरूपं त्यजतः । किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः। ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यं किं तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः ॥ उदाहरणमाह यदनेकपयोधि भुजस्तवैव सदृशोऽस्यहीनसुरतरसः । ननु बलिजितः कथं ते सदृशस्तदसौ सुराधिकृतः ॥ ३३ ॥ यदिति । कश्चिदुच्यते-त्वं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह-कीदृशस्त्वम् । अनेकपानां द्विपानां योद्धा भुजो बाहुर्यस्यासावनेकपयोधि. भुजः । तथाहीनः परिपूर्णः सुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः । तव कीदृशस्य । अनेकांश्चतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य । तथाहीनामिनो नागराजः सुरा देवास्तेषामिव तरो बलं यस्यासावहीनसुरतरास्तस्य । अत्र प्रथमानिर्दिष्टमुपमेयं षष्ठीनिर्दिष्टमुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं तु तत्प्रतिच्छायशब्दप्रयोगात्साम्यं प्रतिभासते । एवमुत्तरत्रापि योज्यम् । किमिति । त्वं तवैव सदृशो न विन्द्रस्येत्याह-नन्वित्यादि । ते तव कथमसौ सदृश इति व्यतिरेको ऽयमलंकारः। कीदृशस्य ते। बलिनः समर्थाञ्जयत्यभिभवतीति बलिजित्तस्य बलिजितः।। तथा सुराणामाधीन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः । इन्द्रस्तु कीदृशः । बलिनाम्ना दानवेन जितः पराभूतः । तथा सुरैरधिकृतो राज्ये नियोजितः । एवं त्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य च विशेषः । यत्तच्छब्दौ हेत्वौँ । नन्वमर्षे । यस्मात्त्वं तवैव सदृशस्तस्मात्तव कथमिन्द्रः सदृशो भवतीत्यर्थः ॥ उपमासमुच्चयोदाहरणमाह वसुधामहितसुराजितनीरागमना भवांश्च वर्षाश्च । सुरचितवराहवपुषस्तव च हरेश्वोपमा घटते ॥ ३४ ॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188