________________
४८
काव्यमाला।
भाषेति । अयं पूर्वोक्तश्लेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरेकादिकं स्पृशति । श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः । अपिशब्दो विस्मये । प्रायोग्रहणमसाकल्यप्रतिपादनार्थम् । अन्यमलंकारं स्पृशति परं न सर्वमेवेत्यर्थः। तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्लेष उपमासमुच्चययोर्धत्ते धारयति । उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यभेदो गृह्यते ॥
नन्वत्र श्लेषवाक्यद्वये शब्दमात्रं श्लिष्टं भवति, न त्वर्थ इति साम्याभावस्ततश्च कथमुपमासमुच्चयाभ्यां स्पर्शो घटत इत्याशङ्कयाह
स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु ।
आश्रित्य शब्दमानं सामान्यमिहापि संभवतः ॥ ३२॥ स्फुटेति । स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि खरूपं त्यजतः । किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः। ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यं किं तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः ॥ उदाहरणमाह
यदनेकपयोधि भुजस्तवैव सदृशोऽस्यहीनसुरतरसः ।
ननु बलिजितः कथं ते सदृशस्तदसौ सुराधिकृतः ॥ ३३ ॥ यदिति । कश्चिदुच्यते-त्वं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह-कीदृशस्त्वम् । अनेकपानां द्विपानां योद्धा भुजो बाहुर्यस्यासावनेकपयोधि. भुजः । तथाहीनः परिपूर्णः सुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः । तव कीदृशस्य । अनेकांश्चतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य । तथाहीनामिनो नागराजः सुरा देवास्तेषामिव तरो बलं यस्यासावहीनसुरतरास्तस्य । अत्र प्रथमानिर्दिष्टमुपमेयं षष्ठीनिर्दिष्टमुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं तु तत्प्रतिच्छायशब्दप्रयोगात्साम्यं प्रतिभासते । एवमुत्तरत्रापि योज्यम् । किमिति । त्वं तवैव सदृशो न विन्द्रस्येत्याह-नन्वित्यादि । ते तव कथमसौ सदृश इति व्यतिरेको ऽयमलंकारः। कीदृशस्य ते। बलिनः समर्थाञ्जयत्यभिभवतीति बलिजित्तस्य बलिजितः।। तथा सुराणामाधीन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः । इन्द्रस्तु कीदृशः । बलिनाम्ना दानवेन जितः पराभूतः । तथा सुरैरधिकृतो राज्ये नियोजितः । एवं त्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य च विशेषः । यत्तच्छब्दौ हेत्वौँ । नन्वमर्षे । यस्मात्त्वं तवैव सदृशस्तस्मात्तव कथमिन्द्रः सदृशो भवतीत्यर्थः ॥ उपमासमुच्चयोदाहरणमाह
वसुधामहितसुराजितनीरागमना भवांश्च वर्षाश्च । सुरचितवराहवपुषस्तव च हरेश्वोपमा घटते ॥ ३४ ॥