________________
५ अध्यायः]
काव्यालंकारः।
४९
वसुधेति । त्वं वर्षाश्च सदृशौ । त्वं तावत्कीदृशः । वसु धनम् , धाम तेजः, ताभ्यां हितमनुकूलं सुरैर्देवैरजितमपराभूतं नीरागं रागरहितं मनश्चित्तं यस्य स तथोक्तस्त्वम् । वर्षास्तु वसुधायां भुवि महितं पूजितं सुष्ठ राजितं शोभितं नीरागमनं जलागतिर्यासु तास्तथोक्काः । चशब्दावत्र समुच्चयार्थौ । साधारणविशेषणादौपम्यस्य सद्भावः । शुद्धाया उपमाया उदाहरणमाह-सुरचितेत्यादि । तव विष्णोश्च साम्यं घटते । की. दृशस्य तव । सुष्ठ रचितं वरं श्रेष्ठमाहवं समरं पुष्णाति पुष्टिं नयतीति यस्तस्य सुरचितवराहवपुषः । हरेस्तु सुरैर्देवैश्चितं व्याप्तं वराहवपुः सूकरशरीरं यस्य स तथा तस्य । अत्रापि साधारणशब्दयोगात्साम्यम्, न त्वर्थतः ॥ अथ श्लेषमुपसंहरन्नाह
शब्दानुशासनमशेषमवेत्य सम्य__ गालोच्य लक्ष्यमधिगम्य च देशभाषाः । यत्नादधीत्य विविधानभिधानकोषा
श्लेषं महाकविरिमं निपुणो विदध्यात् ॥ ३५॥ शब्दानुशासनमिति । इदमिदं च कृत्वा ततो महाकविरिमं श्लेषं कुर्यात् । किं कृत्वा । शब्दानुशासनं व्याकरणं समग्रं सम्यग्ज्ञात्वा । तथा लक्ष्यमुदाहरणं महाकविकृतमालोच्य । तथा सूरसेन्यादिदेशभाषा विदित्वा । तथाभिधानकोषान्नाममाला अधीय पठित्वेति । एतच्च कृत्वा निपुणः कुशलो महाकविश्च यः स श्लेषं कुर्यादिति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत
श्चतुर्थोऽध्यायः समाप्तः ।
पञ्चमोऽध्यायः। वक्रोक्त्यनुप्रासयमकश्लेषानिरूप्य क्रमप्राप्तं चित्रं प्रतिपादयितुमाह
भनयन्तरकृततत्क्रमवर्णनिमित्तानि वस्तुरूपाणि ।
साङ्कानि विचित्राणि च रच्यन्ते यत्र तच्चित्रम् ॥ १॥ भङ्गयन्तरेति । यत्र काव्ये वस्तूनां चक्रादीनां रूपाणि संस्थानानि रच्यन्ते निबध्यन्ते तचित्रसादृश्यादाश्चर्याद्वा चित्रं नामालंकारः । काव्ये कथं वस्तुरूपाणि रच्यन्त इति प्रश्न विशेषणद्वारेण युक्तिमाह-भङ्गयन्तरेण चक्रादिविच्छित्तिलक्षणेन प्रकारेण कृतः स सकललोकप्रसिद्धः क्रमो रचनापरिपाटी येषां ते च ते वर्णाश्चाक्षराणि च ते निमित्तं कारणं येषां वस्तुरूपाणां तानि तथोकानि । तथा सहाऊन स्वनामचिह्वेन वर्तन्त इति साकानि । तथा विचित्राणि चान्यानि च सर्वतोभद्रानुलोमप्रतिलोमादीनि । चकारो वस्तुरूपेषु मध्ये सर्वतोभद्रादिसमुच्चयार्थः ॥