________________
काव्यमाला ।
सामान्यतश्चित्रलक्षणमभिधाय विशेषेणाभिधातुं तद्भेदानाह
तच्चक्रखङ्गमुसलैर्बाणासनशक्तिशूलहलैः । 'चतुरङ्गपीठविरचितरथतुरगगजादिपदपाठैः ॥ २ ॥ अनुलोमप्रतिलोमैरर्धभ्रममुरजसर्वतोभद्रैः । इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः ॥ ३ ॥ भेदैर्विभिद्यमानं संख्यातुमनन्तमस्मि नैतदलम् । तस्मादेतस्य मया दिङ्मात्रमुदाहृतं कवयः ॥ ४ ॥
तदिति । अनुलोमेति । भेदैरिति । तदेतच्चित्रं यस्मादित्यादिभिरुक्तैरन्यैरनुक्तैरपि । भेदैः कीदृशैः । वस्तुविशेषाकारात्प्रभवन्ति जायन्ते ये तैर्विभिद्यमानं भेदेन व्यवस्थाप्यमानमनन्तमसंख्यातं तत्संख्यातुं संख्यया प्रतिपादयितुं नालं न समर्थोऽस्म्यहम् । तस्मादेतस्य मया दिङ्मात्रमुदाहृतं दर्शितं हे कवयः । इत्यादिभिर्भेदैरित्युक्तं तानेव दर्शयति तच्चक्रेत्यादि । चक्रादीनि प्रतीतानि न वरम् । बाणासनं धनुः । चतुरङ्गपीठं द्यूतकारिविदितचतुरङ्गफलकस्तत्र रचितै रथतुरगगजादिपदपाठैः । पठ्यतेऽनेनेति पाठः श्लोकः। आदिग्रहणान्नरपदसंग्रहः । क्रमव्युत्क्रमाभ्यां यः सदृशः सोऽनुलोमप्रतिलोमश्लोकः । अर्धभ्रमणादर्धभ्रमः। सर्वतस्तु भ्रमणात्सर्वतोभद्रः । आदिग्रहणात्पद्मगोमूत्रिकादिसंग्रहः । किं पुनस्तेषां वस्तुरूपाणां विरचने लक्षणमित्याह -
यन्नाम नाम यत्स्यात्तदाकृतिर्लक्षणं मतं तस्य । तल्लक्ष्यमेव दृष्ट्वावधार्यमखिलं तदन्यदपि ॥ ५ ॥
यदिति । चत्रादिकं प्रसिद्धं नाम संज्ञा यस्येति विग्रहः । तद्यन्नाम । द्वितीयस्तु नामशब्दः प्राकाश्ये । तदेवंविधं वस्तु यत्स्यात्तदाकृतिस्तदाकारस्तस्य चित्रस्य लक्षणमभिहितम् । यदनुकार्यस्य चक्रादेर्नाम संस्थानं च तदेवानुकरणस्य करणीयमित्यर्थः । तच्च चित्रलक्षणमखिलं समग्रं माघादिमहाकविरचितं लक्ष्यमुदाहरणमेव दृष्ट्वावधार्य ज्ञेयम् । ततो वस्तुरूपादन्यदपि सर्वतोभद्रादिकं लक्ष्यमेव दृष्ट्वावधार्यम् । अथवा ततो लक्ष्योकाद्वस्तुरूपादन्यदपि मत्स्यबन्धादिकं स्वधियैवाभ्युत्यम् । मार्गे दृष्ट्वान्यथापि करणं न दोषाये। त्यर्थः । तेन चक्रारनेमिपद्मदलादावनियम उक्तो भवतीति स्थितमेतत् ॥ तत्राष्टभिः श्लोकैर्गर्भीकृतखङ्गादिवस्तुरूपान्तरैश्चक्रमाहमारारिशक्ररामेभमुखैरासार रंहसा ।
सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥ ६ ॥
माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥ ७ ॥ खङ्गबन्धः ॥ ( युग्मम् )