SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४ अध्यायः ] काव्यालंकारः । स्परं सर्वथा सर्वप्रकारैर्भवति सोऽत्र श्वेषाधिकारे विभक्तिश्लेषो ज्ञेयः । वचनानां त्वेकवचनादीनां मिथः सारूप्ये वचनश्लेषः ॥ तत्र तावद्विभक्तिश्वेषोदाहरणम् - आयाम दानवतां सरति बले जीवतां न नाकिरताम् । ४७ नयदानवाँल्ललामः किमभूरसि दारुणः सहसा ॥ २९ ॥ आयाम इति । जीवतां प्राणभृतां दानवतां दानं ददतां सतां संबन्धिनि बले सैन्य आयामो विस्तारः सरति प्रसरति । न नाकिरतां न विक्षिपताम् । कार्पण्येन गलेऽर्थिनं गृह्णतां नेत्यर्थः । कुतः । यतो नयश्च दानं च ते विद्येते यस्यासौ नयदानवान्पुरुषो ललामो भूषणं जगतः । तथा किमः कुत्साया अभूरस्थानं किमभूः । तथा सहसा बलेनासिदारुणः खङ्गभीषणश्च ललामः । इत्येकोऽर्थः ॥ अपरस्तु – केचित्सुरा बलिनामानमसुरमूचुः—हे बले वैरोचन, दानवतामसुरत्वमायाम आगच्छामः । कथम् । सरति सप्रीतीति कृत्वा । न पुनर्जीवतां बृहस्पतिताम् । किंभूताम् । नाकिषु देवेषु रतां सतां नाकिरताम् । तस्मान्नय प्रापय दानवानसुरान् । येन तेषां मध्ये ललामो विलसामः । किमसि त्वं दारुणः काष्ठादभूः संजातः सहसा । येनास्माकं वचनं न शृणोषीत्यर्थः । अत्रायाम इत्यादयो य एव स्याद्यन्तास्त एव त्याद्यन्ताः शब्दा इति सारूप्यम् ॥ अथ वचन श्लेषोदाहरणम् आर्योऽसि तरोमाल्यः सत्योऽनतकुक्षयः स्तवावाच्यः । सन्नाभयो युवतयः सन्मुख्यः सुनयना वन्द्यः ॥ ३० ॥ 1 आर्य इति । कश्चिदुत्साह्यते - असि त्वं वन्द्यो वन्दनीयः, यत आर्यो विशिष्टः । तथा तरो बलं माल्यमलंकरणं यस्यासौ तरोमाल्यः । सत्योऽवितथवाक् । अनतानामप्रणतानां कोर्भूमेः क्षयो नाशहेतुरनत्कुक्षयः । स्तवैः स्तुतिभिरवाच्यो वक्तुमशक्यः । तथा सन्नानां क्षीणानामभयो न विद्यते भयं यस्मादिति सन्नाभयः । तथा यूनस्तरुणांस्तयतेऽभियुक्त इति युवतयः । सतां साधूनां मुख्य आद्यः । तथा शोभनो नयोऽस्येति सुनयः स चासौ ना च । सुनीतिपुरुष इत्यर्थः । एष एकवचनेनैकस्य वाक्यस्यार्थः ॥ अपरस्य तु — कश्चिद्राजानमाह - तव संबन्धिन्य आर्योऽरिसक्ता युवतयस्त्रियो वन्द्यो ग्रहानीता एवंविधाः । असिता रोमाली यासां तास्तथाभूताः । तथा सत्यः साध्व्यः । नतकुक्षयः कृशोदर्यः । अवाच्योऽधोमुख्यः । तथा सती रम्या नाभिर्यासां ताः सन्नाभयः । तथा सच्छोभनं मुखं यासां ताः सन्मुख्यः । शोभने नयने यासां ताः सुनयनाः । अत्रार्य इत्यादीनि पदानि बहुवचनान्तानीति वचन श्लेषः ॥ एवं श्लेषलक्षणमभिधाय पूर्वकविलक्ष्यसंग्रहाय लक्षणशेषमाहभाषाश्लेषविहीनः स्पृशति प्रायोऽन्यमप्यलंकारम् । धत्ते वैचित्र्यमयं सुतरामुपमासमुच्चययोः ॥ ३१ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy