Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
૭૬
काव्यमाला ।
इत्याह- अतिरसादिति । अतिरसहृतहृदयानां हि प्रायशो मर्यादोल्लङ्घनमपि भवति । एतदुक्तम् — 'गणयन्ति नापशब्द न वृत्तभङ्गं क्षयं न वार्थस्य । रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च' ॥
यद्यन्यथात्वं निवार्यते तर्हि कथं दिगाकाशादिष्वमूर्तेषु मूर्तधर्माः कविभिर्वर्ण्यन्ते । यथा— निर्मला दिशः । निर्मलं नभ इति । तथा विचेतनेषु सचेतनधर्मा इत्याहसुकविपरम्परया चिरमविगीततयान्यथा निबद्धं यत् । वस्तु तदन्यादृशमपि बघ्नीयात्तत्प्रसिद्ध्यैव ॥ ८ ॥
सुकवीति । पूर्वसुकवीनां परम्परया समूहेन चिरं बहुपूर्वकालेऽविगीततयाविगानेन निर्दोषतयेति यावत् । यद्वस्त्वन्यथा निबद्धं तदन्यादृशमपि तत्प्रसिद्ध्यैव बध्नीयात् । न त्वात्मबलेन । महाकविप्रसिद्धिरेवात्र प्रमाणमित्यर्थः ॥
सप्रभेदमर्थमभिधाय सांप्रतं तदलंकारानाहअर्थस्यालंकारा वास्तवमैौपम्यमतिशयः श्लेषः ।
एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः ॥ ९॥
अर्थस्येति । उक्तलक्षणस्यार्थस्य वास्तवादयश्चत्वारोऽलंकारा भवन्ति । चतुर्भिः प्रकारैरसौ भूष्यत इत्यर्थः । नन्वन्येऽपि रूपकादयोऽलंकाराः सन्ति तत्किमिति चत्वार एवोक्ता इत्याह-एषामेवेत्यादि । तुर्हेतौ । एषामेव सामान्यभूतानां चतुर्णा ते भेदा यतस्ततो मूलभेदत्वेन नोक्ता इत्यर्थः ॥
यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह
वास्तवमिति तज्ज्ञेयं क्रियते वस्तुखरूपकथनं यत् ।
पुष्टार्थमविपरीतं निरुपममनतिशयमश्लेषम् ॥ १० ॥
वास्तवमिति । यद्वस्तुखरूपकथनं क्रियते तद्वास्तवमिति ज्ञेयम् । वस्तुन इदं वास्तवमिति कृत्वा । इतिशब्दोऽर्थनिर्देशे । वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः । पुष्टार्थग्रहणम पुष्टार्थनिवृत्त्यर्थम् । तेन 'गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः । मूत्रं मुञ्चति शिश्न अपानेन तु गोमयम् ॥' अस्य वास्तवत्वं न भवति । अविपरीतग्रहणं विवक्षितविपरीतार्थस्य वास्तवत्वनिवृत्त्यर्थम् । यथा - ' दन्तान्निर्दलयद्रसां च जडयत्तालु द्विधा स्फोट - यन्नाड्यः संघटयद्गलद्गलबिलादान्त्राणि संकोचयत् । इत्थं निर्मलकर्करीस्थमसहप्रालेयवाताहतं नाधन्याः प्रचुरं पिबन्त्यनुदिनं प्रोन्मुक्तधारं पयः ॥' अत्र हि पयसः शीतल • त्वमाह्लादकत्वं च विवक्षितम् । तद्वैपरीत्यं च प्रतीयते । निरुपमादिग्रहणं त्वनुवादमात्रम् । न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये । पृथगुपादानादेव तेषामन्यत्वसिद्धेः ॥ अथ वास्तवप्रभेदानाह
1
तस्य सहोक्तिसमुच्चयजातियथासंख्यभावपर्यायाः । विषमानुमानदीपकपरिकरपरिवृत्ति परिसंख्याः ॥ ११ ॥

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188