Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 72
________________ ६ अध्यायः] काव्यालंकारः। अथैतदतिव्याप्तिपरिहारार्थमाह अर्थविशेषवशाद्वा सभ्येऽपि तथा क्वचिद्विभक्तेर्वा । अनुचितभावं मुश्चति तथाविधं तत्पदं सदपि ॥ २३ ॥ अर्थेति । ग्राम्यं यत्पदं तत्तथाविधं ग्राम्यं सदपि क्वचित्सभ्येऽर्थे उचितभावं ग्राम्यत्वं मुञ्चति । कुतोऽर्थविशेषवशाद्वा, विभक्तेर्वा । वाशब्दौ विकल्पाौँ । विशिष्टसभ्यार्थप्रयोगाद्वा विभक्तिविशेषाद्वेत्यर्थः । अपिविस्मये संभावने वा । तथाशब्दः समुच्चयार्थः । पदमेतदोषाभावमध्ये समुच्चीयते । क्वचिच्छब्दो विरलत्वप्रतिपादनार्थः । क्वचिदेवार्थविशेषे न सर्वत्रेत्यर्थः ॥ निदर्शनमाह कथमिव वैरिगजानां मदसलिलक्लिन्नगण्डभित्तीनाम् । दुर्वारापि घटासौ विशांपते दारिता भवता ॥ २४ ॥ कथमिति । निगदसिद्धम् । अत्रार्थविशेषो गजो वीररसश्च । कथं तर्हि नायिकायां बाहुल्येन दृश्यते। यथा-'धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम्। नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥' कामिनीलक्षणोऽर्थविशेषो ऽत्रापीति चेत्तर्हि वारयति सखी तस्याः' (६।२२) इति दुष्टत्वे कथमुदाहरणम् । पाण्डुशब्दसंनिधानादत्रानुप्रासत्वेन रम्यत्वाददोष इति नोत्तरम् । विनापि पाण्डुशब्दप्रयोगं दर्शनात् । 'दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः' इत्यादिषु । तस्मात्पूर्वकविलक्ष्याणां बहूनां दुष्टत्वमायाति । अत्रोच्यते-क्लिन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फुरति न त्वन्यदा । इत्येतदेव दर्शयितुमुदाहरणे तथैव प्रयुक्तवानिति । विशांपते इत्यत्र षष्ठीबहुवचनवशान विट्शब्देन विष्ठालक्षणोऽसभ्यार्थी मनसि निधीयते ॥ भूयोऽपि ग्राम्यविशेषानाह मञ्जीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीन् । मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान् ॥ २५ ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥ २६ ॥ (युग्मम्) मञ्जीरादिष्विति । दृष्ट्वेति । वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्यमानान्दृष्ट्वा तेष्वेव निबध्नीयात् । नान्यत्र । यतस्तल्लक्ष्यमेवान्यत्र व्यवस्थाकारि । मञ्जीरं नूपुरम् । आदिग्रहणादशनाघण्टाभ्रमरादिसंग्रहः । रणितप्रायानिति प्रायग्रहणं सदृशार्थबृत्तिक्कणिशिजिगुञ्जयाद्यर्थम् । प्रभृतिग्रहणं वाशत्याद्यर्थम् । सुरतग्रहणं व्यापारान्तरनिवृत्त्यर्थम् । मेघादिष्वित्यत्रादिग्रहणं सिंहगजाद्यर्थम् । प्रायग्रहणं ध्वनत्याद्यर्थम् । एवंप्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते। अथ च विशेष एव दृश्यन्ते। यथा--हेषति

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188