Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 70
________________ ६ अध्यायः ] काव्यालंकारः । ६५ तत्रेति । तत्र द्वयोर्मध्यावदसंधि तदसकृत्कृतं पुनः पुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदासंश्लेषाएं भवति । यथा - 'कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी । पातां वः शंभुशर्वाण्यावितो दुःखाकुलाद्भवात् ॥ इत्यादि । विरुद्धसंधि पुनः पदं दूरमतिशयेन प्रयत्नतो वर्जनीयमेव ॥ अथ विपरीतकल्पनमाह पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति । विपरीतकल्पनं तद्भवति पदमकार्यमित्रमिव ॥ १६ ॥ पूर्वार्थेति । यस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एवाव्याख्यात एवार्थः संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम् । निदर्शनमाह - अकार्यमित्र - मिवेति । अत्र कार्य कृत्रिमं मित्रमकारणबन्धुरित्ययमर्थौ विवक्षितोऽप्यकार्ये पापे मित्रमिति विरोध्यर्थो झगित्येव प्रतिभाति । ननु विरुद्धसंधित्वेन किं न परिहृतमेतत् । न परिहृतम् । तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संध्यभावेऽपीति ॥ अथ ग्राम्यमाह - यदनुचितं यत्र पदं तत्तत्रैवोपजायते ग्राम्यम् । तद्वक्तृवस्तुविषयं विभिद्यमानं द्विधा भवति ॥ १७ ॥ यदिति । यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते । एतदुक्तं भवति न खाभाविकं पुरुषस्येव शब्दस्य ग्राम्यत्वम्, अपि तु विषयभेदेन । तच्च ग्राम्यं वक्तृवस्तुविषयत्वेन भिद्यमानं सद्विधा द्विभेदं भवति । अत्र यद्वस्तुनि वक्तुमुचितं वक्तरित्वनुचितं तद्वत्तृविषयं ग्राम्यम् । विपरीतं तु वस्तुविषयमिति ॥ तत्र वक्तृग्राम्यमाह वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया । तत्र च कश्चित्किचिन्नैवार्हति पदमुदाहर्तुम् ॥ १८ ॥ वक्तेति । वक्ताधममध्यमोत्तमया प्रकृत्या स्वभावेन त्रिधा त्रिप्रकारो भवति । तत्राधमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मुनिनृपतिप्रभृतयः । अथ बालयुववृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते । तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव । सत्यम् । अर्थविषयमेव तद्राम्यत्वम् । तच्च तत्रैव परिह• रिष्यते ‘ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्' इत्यनेन । तत्र तेष्वधममध्यमोत्तमेषु वक्तृषु मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुं वक्तुं नैवार्हति न योग्यो भवति ॥ तत्र दिङ्मात्रप्रदर्शनायाह तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ १९ ॥

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188