________________
६ अध्यायः ]
काव्यालंकारः ।
६५
तत्रेति । तत्र द्वयोर्मध्यावदसंधि तदसकृत्कृतं पुनः पुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदासंश्लेषाएं भवति । यथा - 'कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी । पातां वः शंभुशर्वाण्यावितो दुःखाकुलाद्भवात् ॥ इत्यादि । विरुद्धसंधि पुनः पदं दूरमतिशयेन प्रयत्नतो वर्जनीयमेव ॥
अथ विपरीतकल्पनमाह
पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति ।
विपरीतकल्पनं तद्भवति पदमकार्यमित्रमिव ॥ १६ ॥
पूर्वार्थेति । यस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एवाव्याख्यात एवार्थः संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम् । निदर्शनमाह - अकार्यमित्र - मिवेति । अत्र कार्य कृत्रिमं मित्रमकारणबन्धुरित्ययमर्थौ विवक्षितोऽप्यकार्ये पापे मित्रमिति विरोध्यर्थो झगित्येव प्रतिभाति । ननु विरुद्धसंधित्वेन किं न परिहृतमेतत् । न परिहृतम् । तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संध्यभावेऽपीति ॥
अथ ग्राम्यमाह -
यदनुचितं यत्र पदं तत्तत्रैवोपजायते ग्राम्यम् । तद्वक्तृवस्तुविषयं विभिद्यमानं द्विधा भवति ॥ १७ ॥
यदिति । यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते । एतदुक्तं भवति न खाभाविकं पुरुषस्येव शब्दस्य ग्राम्यत्वम्, अपि तु विषयभेदेन । तच्च ग्राम्यं वक्तृवस्तुविषयत्वेन भिद्यमानं सद्विधा द्विभेदं भवति । अत्र यद्वस्तुनि वक्तुमुचितं वक्तरित्वनुचितं तद्वत्तृविषयं ग्राम्यम् । विपरीतं तु वस्तुविषयमिति ॥
तत्र वक्तृग्राम्यमाह
वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया । तत्र च कश्चित्किचिन्नैवार्हति पदमुदाहर्तुम् ॥ १८ ॥
वक्तेति । वक्ताधममध्यमोत्तमया प्रकृत्या स्वभावेन त्रिधा त्रिप्रकारो भवति । तत्राधमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मुनिनृपतिप्रभृतयः । अथ बालयुववृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते । तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव । सत्यम् । अर्थविषयमेव तद्राम्यत्वम् । तच्च तत्रैव परिह• रिष्यते ‘ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्' इत्यनेन । तत्र तेष्वधममध्यमोत्तमेषु वक्तृषु मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुं वक्तुं नैवार्हति न योग्यो भवति ॥ तत्र दिङ्मात्रप्रदर्शनायाह
तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ १९ ॥