SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तत्रभवन्निति । गरीयस उत्तमान्सुरमुनिप्रभृतींस्तत्रभवन्भगवञ्शब्दवाच्यानप्यधमो वक्तवमादिभिः शब्दैवक्तुं नार्हति न योग्यो भवति । वक्तृविषयं पदमिदमनुचितम् । तथैतानगरीयसो भट्टारकशब्दयोग्यानप्यन्य उत्तमखभावो राजादिर्वक्तुं नार्हति । इतिशब्दौ स्वरूपनिर्देशाौँ । चशब्दोऽनुक्तस्वामिप्रभृतिशब्दसमुच्चयार्थः । भट्टारकेति स्वामिनित्यादि वेत्यर्थः ॥ · इदानीं वस्तुविषयं ग्राम्यमाह तत्रभवन्भगवन्निति नैवाहत्युत्तमोऽपि राजानम् । वक्तुं नापि कथंचिन्मुनिमपि परमेश्वरेशेति ॥ २० ॥ ___ तत्रभवन्निति । उत्तमो मुनिमन्त्रिप्रभृतिस्तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि रा. जानमेभिः पूजापदैवक्तुं नार्हति । वस्तुविषयमेतदनौचित्यम् । राजा हि परमेश्वरादिभिः शब्दैर्वाच्यो न तु तत्रभवदादिभिरिति । तथा स एवोत्तमो राजा मुनि तपोधनं परमेश्वरेशेत्यादिभिरामन्त्रणपदैः कदाचिदपि वक्तुं नाहति । नियतविषया हि शब्दास्तेऽन्यत्र केलिं विना प्रयुज्यमाना अनौचित्यज्ञतां गमयेयुरिति ग्राम्यत्वं तेषाम् । आस्तां तावदधम उत्तमोऽपि नाहतीत्यपिशब्दार्थः । दिङ्मात्रप्रदर्शनं चैतत् । विस्तरस्तु भरतादव. गन्तव्यः ॥ भूयोऽपि ग्राम्य विशेषमाह पदमिदमनुचितमपरं सभ्यासभ्यार्थवाचि सभ्येऽर्थे । तद्धि प्रयुज्यमानं निदधाति मनस्यसभ्यमपि ॥ २१ ॥ पदमिति । इदमपरं पदमनुचितं ग्राम्यं यत्सभ्यासभ्यार्थवाचकं सत्सभ्येऽर्थे प्रयुज्यमा. नम् । सभायां पर्षदि वक्तुं योग्यः सभ्यस्ततोऽन्योऽसभ्योऽर्थः । कुतोऽनुचितम् । हिर्यस्मादर्थे । यतस्तत्प्रयुज्यमानं सन्मनसि चेतस्यसभ्यमप्यर्थं निदधाति स्फुरयति । नन्वेवंविधस्य पदस्योभयार्थवाचकत्वादसभ्योऽपि प्रयोगो न स्यात्ततश्चास्य प्रयोगोच्छेद एवागतः । नैतत् । अदुष्टो ह्यर्थो दुष्टेन दूष्यते न तु दुष्टः साधुनेति ॥ निदर्शनमाह वारयति सखी तस्या यथा यथा तां तथा तथा सापि । ' रोदितितरां वराकी बाष्पभरक्लिन्नगण्डमुखी ॥ २२ ॥ वारयतीति । तस्या नायिकायाः सखी यथा यथा तां वारयति तथा तथा सा वराकी रोदितितराम् । कीदृशी । बाष्पभरेण क्लिन्नगण्डमाईकपोलं मुखं यस्याः सा तथाविधा। अत्र क्लिन्नगण्डशब्दावाईकपोले सभ्येऽर्थे प्रयुक्तावपि पूययुक्तपिटकत्वलक्षणमसभ्यमप्यर्थ स्फुरयतः । यतोऽसभ्यद्वययोगाचात्र विशेषणविशेष्यभावे सति दुष्टतरार्थत्वम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy