________________
६ अध्यायः] काव्यालंकारः। अथैतदतिव्याप्तिपरिहारार्थमाह
अर्थविशेषवशाद्वा सभ्येऽपि तथा क्वचिद्विभक्तेर्वा ।
अनुचितभावं मुश्चति तथाविधं तत्पदं सदपि ॥ २३ ॥ अर्थेति । ग्राम्यं यत्पदं तत्तथाविधं ग्राम्यं सदपि क्वचित्सभ्येऽर्थे उचितभावं ग्राम्यत्वं मुञ्चति । कुतोऽर्थविशेषवशाद्वा, विभक्तेर्वा । वाशब्दौ विकल्पाौँ । विशिष्टसभ्यार्थप्रयोगाद्वा विभक्तिविशेषाद्वेत्यर्थः । अपिविस्मये संभावने वा । तथाशब्दः समुच्चयार्थः । पदमेतदोषाभावमध्ये समुच्चीयते । क्वचिच्छब्दो विरलत्वप्रतिपादनार्थः । क्वचिदेवार्थविशेषे न सर्वत्रेत्यर्थः ॥ निदर्शनमाह
कथमिव वैरिगजानां मदसलिलक्लिन्नगण्डभित्तीनाम् ।
दुर्वारापि घटासौ विशांपते दारिता भवता ॥ २४ ॥ कथमिति । निगदसिद्धम् । अत्रार्थविशेषो गजो वीररसश्च । कथं तर्हि नायिकायां बाहुल्येन दृश्यते। यथा-'धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम्। नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥' कामिनीलक्षणोऽर्थविशेषो ऽत्रापीति चेत्तर्हि वारयति सखी तस्याः' (६।२२) इति दुष्टत्वे कथमुदाहरणम् । पाण्डुशब्दसंनिधानादत्रानुप्रासत्वेन रम्यत्वाददोष इति नोत्तरम् । विनापि पाण्डुशब्दप्रयोगं दर्शनात् । 'दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः' इत्यादिषु । तस्मात्पूर्वकविलक्ष्याणां बहूनां दुष्टत्वमायाति । अत्रोच्यते-क्लिन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फुरति न त्वन्यदा । इत्येतदेव दर्शयितुमुदाहरणे तथैव प्रयुक्तवानिति । विशांपते इत्यत्र षष्ठीबहुवचनवशान विट्शब्देन विष्ठालक्षणोऽसभ्यार्थी मनसि निधीयते ॥ भूयोऽपि ग्राम्यविशेषानाह
मञ्जीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीन् । मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान् ॥ २५ ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत ।
अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥ २६ ॥ (युग्मम्) मञ्जीरादिष्विति । दृष्ट्वेति । वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्यमानान्दृष्ट्वा तेष्वेव निबध्नीयात् । नान्यत्र । यतस्तल्लक्ष्यमेवान्यत्र व्यवस्थाकारि । मञ्जीरं नूपुरम् । आदिग्रहणादशनाघण्टाभ्रमरादिसंग्रहः । रणितप्रायानिति प्रायग्रहणं सदृशार्थबृत्तिक्कणिशिजिगुञ्जयाद्यर्थम् । प्रभृतिग्रहणं वाशत्याद्यर्थम् । सुरतग्रहणं व्यापारान्तरनिवृत्त्यर्थम् । मेघादिष्वित्यत्रादिग्रहणं सिंहगजाद्यर्थम् । प्रायग्रहणं ध्वनत्याद्यर्थम् । एवंप्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते। अथ च विशेष एव दृश्यन्ते। यथा--हेषति