SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६८ काव्यमाला। रश्वेषु । भणतिः पुरुषेषु । कणतिः पीडितेषु । वातिर्वायौ । न त्वन्यत्र । नहि दृश्यते पुरुषो वातीति । एवमन्येऽपि द्रष्टव्याः।अन्यत्रैतेऽनुचिताः। मेघादिषु रणत्यादय इत्यर्थः। अपिशब्दो विस्मये । चित्रमिदं यच्छब्दार्थे समानेऽपि ग्राम्यत्वमेषां वस्तुविषयेणैव । ग्राम्यत्वेनास्मिन्दोषे परिहृते पुनर्वचनं प्रपञ्चार्थम् ॥ अथ देश्यमाह प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य ।। तन्मडहादि कथंचन रूढिरिति न संस्कृते रचयेत् ॥ २७ ॥ प्रकृतीति । विशिष्टदेशे भवं देश्यम् । महाराष्ट्रादिदेशप्रसिद्धम् । देशीयं पदं संस्कृते न रचयेत् । यस्य पदस्य प्रकृतिप्रत्ययमूला व्युत्पत्तिर्न विद्यते तच्च मडहादि।तत्र मडहडहहोरणधुंघुलमकंदोहएलहुकसयरुयअलंबकुसुमालवाणवालादिकं यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रपटमण्डपपद्महरिद्राजलिसुवर्णकारकुक्कुटचौरशकादिवाचकं कथंचिदपि नैव रचयेदि. त्यर्थः । ननु देश्यप्राकृतभेदत्वात्कथं संस्कृते प्रयोगप्रसङ्ग इत्याह-रूढिरिति । रूढिभ्रान्त्या न बध्नीयात् । कश्चिद्ध्यात्मदेशप्रसिद्धार्थ शब्दं सर्वत्रायं वाचक इति मन्यमानः प्रयुञ्जीत । 'व्युत्पत्तिर्यस्य नास्ति' इति वचनात्तु सव्युत्पत्तिकं देश्यं कदाचित्प्रयुञ्जीतेत्युक्तं भवति । यथा दूर्वायां छिन्नोद्भवाशब्दः । ताले भूमिपिशाचः। शिवे महानटः । वृक्षे परशुरुजः । समुद्र नवनीतं चन्द्रामृतयोः । जले मेघक्षीरशब्दः । एवमन्येऽपि ॥ अथ दोषानुपसंहर्तुमाह इत्थं पददोषाणां दिङ्मात्रमुदाहृतं हि सर्वेषाम् । तस्मादनयैव दिशा ततोऽन्यदभ्यूह्यमभियुक्तैः ॥ २८ ॥ इत्थमिति । इत्थमनेन पूर्वोक्तप्रकारेण पददोषाणां सर्वेषां दिगेव दिङ्मानं हिर्यस्मादुदाहृतं निदर्शितं तस्मादनयैव दिशान्यदपि दोषजातं स्वयमूहनीयम् ॥ __ पूर्वमुक्तमधिकपदं वाक्यं न प्रयोक्तव्यमथ च दृश्यते क्वचिदसकृत्प्रयोगस्तदतिव्याप्तिसंहारमाह वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृढ्यात्तत्पुनरुक्तं न दोषाय ॥ २९ ॥ वक्तेति । वक्ता प्रतिपादको हर्षभयादिभिराक्षिप्तचित्तः सन्यत्पदमेकस्मिन्नेवार्थे पुनः पुनर्वक्ति तत्पुनरुक्तत्वं दोषाय न भवति । अपि त्वलंकारायेत्यर्थः । आदिग्रहणाद्विस्मयशोकादिसंग्रहः । तथाशब्दः समुच्चये ॥ निदर्शनमाह वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति । चित्रं चित्रमरोदीद्धा हेति परा हते पुत्रे ॥ ३० ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy