SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] काव्यालंकारः। जय जय वैरिविदारण कुरु कुरु पादं शिरःसु शत्रूणाम् । धिग्धिक्तमरिं यस्त्वामप्रणमन्खं विनाशयति ॥ ३१ ॥ वदेति । जयेति । अत्र वद वदेति हर्षे । तव तवास्मीति भये । चित्रं चित्रमिति विस्मये । हा हेति शोके । जय जयेति स्तुतौ । कुरु कुर्विति त्वरायाम् । धिग्धिगिति निन्दायाम् । अन्यन्निगदसिद्धम् ॥ भूयोऽप्याह यत्पदमर्थेऽन्यस्मिंस्तत्पर्यायोऽथवा प्रयुज्येत । वीप्सायां च पुनस्तन्न दुष्टमेवं प्रसिद्धं च ॥ ३२॥ यदिति । यत्पदमन्यमर्थमभिधातुं द्विः प्रयुज्यते तत् । तथा तस्य प्रयुक्तपदस्य पर्यायो वाचको यः प्रयुज्येत । तथा वीप्साप्रतिपादनार्थ वा यत्पुनः पदं प्रयुज्येत तत्पदं न पुनरुक्तदोषदुष्टं भवति । एवं प्रसिद्धं च । इत्येवं वीप्सातुल्यरूपेण प्रकारेण यत्कविलक्ष्येषु प्रसिद्धं तदपि पुनरुक्तं न दोषाय । यथा कलकलरणरणकादिकम् । तथैव लोके प्रसिद्धत्वादिति । ननु तुल्यपदस्य तत्पर्यायपदस्य वान्यार्थत्वेन वीप्सावाचकस्य वीप्साप्रतिपादकत्वेन तदर्थत्वादेव पुनरुक्तिर्न दुष्टा तत्किमनेनेति सत्यम् । किं तु कश्चिदतिमन्दमतिः पुनः प्रयोगं दृष्ट्वा दुष्टत्वमाशङ्केतेति ॥ क्रमेण निदर्शनमाह गजरक्तरक्तकेसरभारः सिंहोऽत्र तनुशरीरोऽपि । दिशि दिशि करिकुलभङ्गं वारंवारं खरैः कुरुते ॥ ३३ ॥ गजेति । प्रथमेऽत्र पादे रक्तशब्दावन्याौँ । एको रुधिरवाचकोऽपरस्तु रञ्जनक्रियाभिधायी। तनुशरीर इत्यत्र तनुशब्दस्तानवाभिधायी तत्पर्यायः शरीरशब्दः कायवाचकः। दिशि दिशीति वीप्सायाम् । सर्वस्यां दिशीत्यर्थः । वारंवारमिति लोकप्रसिद्धम् । अन्यदपि लोकप्रसिद्धं दृश्यते । यथा-'मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् । मन्दमन्दमुदितः प्रययौ खं भीत भीत इव शीतमयूखः ॥' तथा'ता किंपि किंपि ता कह विअब्बो निमीलियच्छीहिम् । कडुओसहं व पिज्जइ अहरो घेरस्स तरुणीहिम् ॥' उद्भटस्तु सर्वत्रात्र पुनरुक्ताभासालंकारत्वमाचष्टे ॥ प्रकारान्तरमाह यच्च प्रतिपत्ता वा न प्रतिपद्येत वस्तु सकृदुक्तम् । तत्र पदं वाक्यं वा पुनरुक्तं नैव दोषाय ॥ ३४ ॥ __ यदिति । यद्वस्तु सकृदेकवारमुक्तं सत्प्रतिपत्ता । वाशब्दोऽवधारणे । प्रतिपत्तैव न प्रतिपद्येत । तत्र वस्तुनि वाच्ये पदं वाक्यं वा नैव दोषाय । चः समुच्चये । तच्च पदं निर्दोषपदमध्ये समुच्चीयत इत्यर्थः ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy