SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७० काव्यमाला। उदाहरणमाह किं चिन्तयसि सखे त्वं वच्मि त्वामस्मि पश्य पश्येदम् । ननु किं न पश्यसीहक्पश्य सखे सुन्दरं स्त्रैणम् ॥ ३५ ॥ किमिति । कश्चिन्मित्रमाह-हे सखे, इदमीटक्सुन्दरं रम्यं स्त्रैणं स्त्रीसमूहं पश्येति । तेन त्वन्यगतचित्तत्वान्न श्रुतमतः स पुनराह-किं चिन्तयसीत्यादि । अत्र पश्य पश्येति पदपौनरुक्त्यं नन्वित्यादि तु वाक्यपौनरुक्त्यम् । ननुरभिमुखीकरणे ॥ भूयोऽप्याह अन्याभिधेयमपि सत्प्रयुज्यते यत्पदं प्रशंसार्थम् । तस्य न दोषाय स्यादाधिक्यं पौनरुक्त्यं वा ॥ ३६ ॥ अन्येति । प्रशंसालक्षणादर्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदित्थंभूतमपि सत्प्रशंसाथै प्रयुज्यते यतस्तस्याधिक्यं पौनरुक्त्यं वा दोषाय न भवति । अन्याभिधेयस्य हि प्रस्तुतार्थानुपयोगिनः प्रयोगे सत्याधिक्यं स्यात् । पदान्तरेणैवोक्ततदर्थस्य तु पौनरुक्त्यं स्यात् । ननु यद्यन्याभिधेयं कथं प्रशंसार्थ प्रयोगः, प्रयोगश्चेन्नान्याभिधेयमिति । सत्यम् । अन्याभिधेयस्यापि प्रशंसायंगमकतास्तीति । यथा मुनिशार्दूल:, कर्णतालः, केशपाशः, नृपपुंगवः, गोनागः, अश्वकुञ्जरः । तथा चूतवृक्षः, मलयाचलः, इत्यादिषु शार्दूलादिशब्दानां व्याघ्रादिवाचित्वेनान्याभिधेयत्वेऽपि, वृक्षादीनां तु पदान्तरोक्तार्थत्वेऽपि प्रशंसार्थगमकत्वेन न दुष्टतेति ॥ निदर्शनमाह नासीरोद्धतधूलीधवलितसकलारिकेशहस्तस्य । अविलक्योऽयं महिमा तव मेरुमहीधरस्येव ।। ३७ ॥ नासीरेति । नासीरं सैन्यं तदुत्खातधूल्या धवलिताः सकलारीणां केशहस्ताः केशकलापा येन तस्य तवाविलङ्घनीयो महिमा । कस्येव । मेरुमहीधरस्येव मेरुपर्वतस्य यथा । अत्र हस्तशब्दस्य पाणिवाचकस्यान्यार्थस्यापि नाधिक्यम् । महीधरशब्दस्य च मेरुपदान्तरेण गतार्थस्य न पौनरुक्त्यम् । प्रशंसार्थत्वादिति ॥ परस्परं संबद्धपदं वाक्यं प्रयुञ्जीतेति यदभ्यधायि तदतिव्याप्तिं संजिहीर्घराह यस्मिन्ननेकमर्थ खयमेवालोचयेत्तदर्थानि । जल्पन्पदानि तेषामसंगतिर्नैव दोषाय ॥ ३८ ॥ यस्मिन्निति । यस्मिन्वाक्ये वक्तानेकार्थवाचकानि पदानि जल्पन्खयमेवानेकमर्थमालोचयति तेषां तद्वाक्यपदानामसंगति व दोषाय । विवक्षावशेन हि शब्दाः प्रयुज्यन्ते । वक्ता चेत्स्वयं विलक्षणमनेकमर्थ वक्तुकामोऽन्योन्यमसंबद्धानि पदानि ब्रते तत्किमसांगत्यम् । असंबद्धत्वाच दोषाशङ्का चेति स्वयंग्रहणात्परेण यत्र प्रतिपाद्यस्तत्रासंगतिर्दु
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy