SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] काव्यालंकारः । ष्टैव । यथा—'आषाढी कार्तिकी माघी वचा हिङ्गु हरीतकी । पश्यतैतन्महच्चित्रमायुर्म र्माणि कृन्तति ॥ उदाहरणमाह- -- कुसुमभरः सुतरूणामहो नु मलयानिलस्य सेव्यत्वम् । सुमनोहरः प्रदेशो रूपमहो सुन्दरं तस्याः ॥ ३९ ॥ कुसुमभर इति । एतत्कश्चित्कामी मलयोद्याने तरुणीं दृष्ट्वा स्वयमेव पर्यालोचयति । तन्निगद सिद्धम् ॥ इदानीं वाक्यदोषमाह - वाक्यं भवति तु दुष्टं संकीर्ण गर्भितं गतार्थ च । यत्पुनरनलंकारं निर्दोषं चेति तन्मध्यम् ॥ ४० ॥ ७१ वाक्यमिति । तुः पुनरर्थे । वाक्यं पुनः संकीर्णगर्भितगतार्थरूपं दुष्टं भवति । ननु वाक्यस्य पदात्मकत्वात्पदद्वारेणैव तद्दोष उक्त इति किं पुनरुच्यते । सत्यम् । किंतु सन्ति तादृशानि वाक्यानि येषु पददोषाभावेऽपि वाक्यस्य दुष्टता भवति । यथा'गौरीक्षणं भूधरजाहिनाथः पत्रं तृतीयं दयितोपवीतम् । यस्याम्बरं द्वादशलोचनाख्यः काष्ठासुतः पातु सदाशिवो वः ॥' कुसुमभर इत्यादौ वाक्यार्थ नामसंगतिरिह तु वाक्यानामिति विशेषः । ननूपादेयत्वादलंकारनिर्देश एव न्याय्यः, ततोऽन्यत्सर्वमनुपादेयमिति सेत्स्यति, किं संकीर्णादिलक्षणोक्तिप्रयासेनेत्यत आह - यत्पुनरित्यादि । यदलंकारशून्यं निर्दोषं च तन्मध्यम वाक्यम् । एतदुक्तं भवति - यदि हेयोपादेयपक्षद्वयमेव स्यात्तदालंकार निर्देश एव । यावता तृतीयं मध्यमपि वाक्यं विद्यत एवेति सर्वमेव वक्तव्यम् ॥ अथ संकीर्णलक्षणमाह वाक्येन यस्य साकं वाक्यस्य पदानि सन्ति मिश्राणि । तत्संकीर्ण गमयेदनर्थमर्थं न वा गमयेत् ॥ ४१ ॥ वाक्येनेति । यस्य वाक्यस्य वाक्यान्तरेण सह मिश्राणि पदानि भवन्ति तत्संकीर्ण नाम । किमित्येतावता तस्य दुष्टत्वमत आह — गमयेदनर्थम् । यतः करणाद्विवक्षितमर्थं वा न गमयेत्ततस्तद्दृष्टमित्यर्थः ॥ उदाहरणमाह--- किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम् । ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥ ४२ ॥ किमिति । काचित्सखी मानिनीं वक्ति - किमिति । कस्मात्पादगतं हृदयनाथं प्रियं बहुगुणं न पश्यसि । ननु मनसस्तमोरूपं कोपं मुञ्च त्यज । एनं च प्रियं कण्ठे गृहाण । इत्येवंविधो वाक्योऽत्र विवक्षितः । पदानां तु मिश्रत्वाद्दुष्टोऽर्थो गम्यते । यथा -पाद
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy