SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७२ - काव्यमाला। पतितं कोपं कस्मान्न पश्यसि । एनं च कोपं बहुगुणं गृहाण । मनसो हृदयाच्च तमोरूपं हृदयनाथं वल्लभं मुञ्च त्यजेति ॥ गर्भितमाहयस्य प्रविशेदन्तर्वाक्यं वाक्यस्य संगतार्थतया । तद्दर्भितमिति गमयेन्निजमर्थ कष्टकल्पनया ॥ ४३ ॥ यस्येति । यस्य वाक्यस्यान्यद्वाक्यं समृद्धार्थत्वेनान्तर्मध्ये प्रविशेत्तद्गर्भितं नाम । का तस्य दुष्टतेत्याह-गमयेनिजमर्थमभिधेयं कष्टकल्पनया क्लेशेनेति ॥ निदर्शनमाह योग्यो यस्ते पुत्रः सोऽयं दशवदन लक्ष्मणेन मया । रक्षनं मृत्युमुखं प्रसह्य लघु नीयते विवशः ॥ ४४ ॥ योग्य इति । अङ्गदमुखेन लक्ष्मणो रावणमाह-हे दशवदन, योग्यो यस्ते तव पुत्रः सोऽयं मया लक्ष्मणेन प्रसह्य हठान्मृत्युमुखं विवशः परवशः संलघु शीघ्रं नीयते तस्माद्रौनम् । अत्र रक्षैनमिति गर्भवाक्यं यावन्मध्यान्नोद्धृत्य पृथकृतं तावन्मूलवाक्यं कष्टकल्पनयाथै गमयति ॥ गतार्थमाह यस्यार्थः सामर्थ्यादन्याथैरेव गम्यते वाक्यैः । तदिति प्रबन्धविषयं गतार्थमेतत्ततो विद्यात् ॥ ४५ ॥ यस्येति । यस्य वाक्यस्यार्थोऽभिधेयं प्रयोजनं वान्याभिधेयैर्वाक्यैर्गम्यते । एवकारो भिन्नक्रमे । गम्यत एवेत्येवं द्रष्टव्यम् । कथं गम्यते सामर्थ्यात् । अन्यार्थानामपि तद. र्थाभिधानशक्तियुक्तत्वादित्यर्थः । तदित्येवंप्रकारं वाक्यं गतार्थम् । अथ कथमत्र नोदाहृतमित्याह-तदेतत्प्रबन्धविषयं विपुलग्रन्थगोचरमतस्ततः प्रबन्धादेव विद्याज्जानीयात्। नान्यथाख्यातुं शक्यत इति । प्रबन्धे दर्श्यते यथा किरातार्जुनीयकाव्ये हिमाचलवर्णने'मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥' इत्यनेन श्लोकेन मणयोऽप्सरस उद्यानानि च सन्त्यतः सेव्योऽयं पर्वत इति प्रतिपाद्यते । एतच्चान्यास्वार्थैक्यिान्तरैरेव कथितम् । तद्यथा-'रहित. रत्नचयान्न शिलोचयानपलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ॥' 'दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः । पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥' अत्र यदेतन्मध्यमं वाक्यमुक्तमेतत्कविना किं कर्तव्यमुत नेत्याह पुष्टार्थालंकारं मध्यममपि सादरं रचयेत् । गामभ्याजेति यथा यत्किचिदतोऽन्यथा तद्धि ॥ ४६ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy