SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६४ काव्यमाला। प्रयुज्यमानं संशयं कुर्वीत। अथ किमेतत् 'शब्दप्रवृत्तिहेतौ सत्यपि' (६।६) इत्यनेनासमर्थलक्षणेन न परिहृतम् । नेत्युच्यते। यतो यदेकत्र रूढमन्यत्र तु तदर्थसद्भावेऽपि न प्रयोगार्ह तत्तस्य विषयः । इह तु यत्क्वचिदपि न रूढं युक्त्या च तदर्थवाचकत्वं तदेकत्रार्थऽनुचितमिति स्फुट एव भेदः। तथा 'निश्चीयते न यस्मिन्' (६७) इत्यस्याप्ययमविषयः। यतस्तत्र विशेषणपदं संशयकारि निषेध्यम् ॥ अथासंशयमाह पदमपरमप्रतीतं यद्यौगिकरूढशब्दपर्यायैः । कल्पितमर्थे तस्मिन्यथाश्वयोषिन्मुखार्चिष्मान् ॥ १३ ॥ पदमिति । अपरमिदं पदमप्रतीतं यद्यौगिकानां संबन्धजानामथ च रूढानां संज्ञात्वेन प्रसिद्धानां पर्यायैस्तस्मिन्विवक्षितेऽर्थे कल्पितमभिधानतया प्रयुक्तम् । यथा वडवामुखानलशब्दे वाच्येऽश्वयोषिन्मुखार्चिष्मानिति शब्दः। स ह्यश्विमुखसादृश्यादौर्वाग्नौ यौगिको रूढिशब्दश्च । तत्र वडवापर्यायोऽश्वयोषिदिति, अनलस्यार्चिष्मानिति । मुखशब्दः खरूपेण प्रयुक्तः । केचित्त्वश्वयोषिद्वदनवह्निरिति पठन्ति । एवंविधं पदं विवक्षितमर्थ निविकल्पमेव प्रत्यापयति । केवलं न तथा रूढमिति दुष्टम्। यथा माघस्य-'तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास' । अल्पश्चायं दोषः, महाकविभिरपि प्रयुक्तत्वात् । अथ किमेतावसमर्थाप्रतीतदोषाववाचकत्वेन परिहृतौ। नेत्युच्यते।यतो यत्किंचिदपि तमर्थ नाभिधत्ते तदवाचकम् । इह तु पदमर्थाभिधायकमेव । केवलं पदान्तरसंनिधानादसामर्थ्यमरूढ्या चाप्रतीतत्वमागतमिति ॥ अथ विसंधिपदमाह यस्यादिपदेन समं संधिर्न भवेद्भवेद्विरुद्धो वा । तदिति विसंधि स इत्थं मन्थरया भरत आहूतः ॥ १४ ॥ यस्येति । यस्य द्वितीयपदस्यादिपदेन साध संधिः संधानं न भवेद्भवन्नपि विरुद्धार्थत्वाद्विरुद्धो वा भवेत्तत्पदं विसंधि । विरुद्धार्थो विशब्दः । ननूभयाश्रयत्वात्संधेः किमिति द्वितीयपदमेव विसंधि भण्यते, न त्वाद्यम् । सत्यम् । यतो द्वितीयपदे सत्येव विसंधित्वमायाति । ततस्तस्य तदुक्तम् । उभयत्रोदाहरणमाह-स इत्यादि। स भरतो मन्थरया कुब्जयेत्थमाहूत आकारितः । स इत्थमिति, भरत आहूत इति चासंध्युदाहरणम्। मन्थरयाभरत इति तु विरुद्धसंधिनिदर्शनम् । संहितापाठे सति पदभङ्गवशान्मन्थरे याभे मैथुने रत इति प्रतीपोऽर्थो गम्यते ॥ नन्वेवं विसंधिपदे दूषिते सति सर्वमेव पूर्वकविलक्ष्यं दूषितं स्यादित्याशङ्कय विशेषमाह तत्रासत्संधि पदं कृतमसकृदयुक्तितो भवेढुष्टम् । दूरं तु वर्जनीयं विरुद्धसंधि प्रयत्नेन ॥ १५ ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy