SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः] काव्यालंकारः। नन्वर्थस्य शब्दो वाचको न त्वभिनयः, तत्कथं तेनार्थविशेषनिश्चयः क्रियत इत्याह शब्दानामत्र सदानेकार्थानां प्रयुज्यमानानाम् । निश्चीयते हि सोऽर्थः प्रकरणशब्दान्तराभिनयैः ॥ ९॥ शब्दानामिति । हि यस्मादत्र काव्येऽनेकार्थानां शब्दानां प्रयुज्यमानानां स विवक्षितोऽर्थः प्रकरणेन प्रस्तावेन शब्दान्तरसंनिधानेन वाभिनयेन वा निश्चीयते । तत्र प्र. करणे यथा-'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्' इत्यत्र हिमवानेव महीभृदुच्यते। शब्दान्तरेण यथा-'कोपादेकतलाघातनिपतन्मत्तदन्तिनः।हरेहरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥' अत्र दन्तिहरिणशब्दसंनिधानात्सिंह एव हरिनिश्चीयते । अभिनयने त्वर्थविशेषप्रतीतावुदाहरणं सूत्रकार एव दास्यति । यतः प्रकरणशब्दान्तरे प्रसिद्धत्वादुपमाने । अभिनयस्तु प्रस्तुतत्वादुपमेयः। तथा ताभ्यां विवक्षितार्थनिश्चयस्तथाभिनयेनापीत्यर्थः ॥ तदेवोदाहरणमाह सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एतावतीमवस्थां याता दिवसैरियन्मात्रैः ॥ १० ॥ सेति । अत्रेयन्मात्रैतावच्छब्दौ महति स्वल्पे च वर्तेते । ततोऽभिनयेन विशेषप्रतीतिर्यथा—हे सुन्दर, सा सुतनुस्तव विरहे इयन्मात्रलोचना। प्रसृत्यभिनयेन विशाललोचनेति निश्चीयते । तथैतावतीमवस्थां यातेति । अत्रोवीकृतकनिष्ठिकाङ्गुल्या कृशत्वं प्रतीयते । दिवसैरियन्मात्रैरित्यत्र पञ्चाङ्गुलिदर्शनेन स्वल्पत्वं चेति ॥ अथाप्रतीतमाह युक्त्या वक्ति तमर्थ न च रूढं यत्र यदभिधानतया । द्वेधा तदप्रतीतं संशयवदसंशयं च पदम् ॥ ११ ॥ युक्त्येति । तदप्रतीतं ययुक्त्या गुणक्रियायोगेन तं विवक्षितमर्थ वक्ति प्रतिपादयति। अथ च तत्रार्थाभिधानतया वाचकत्वेन न रूढं न प्रसिद्धं तच्चाप्रतीतं द्वेधा । कथं संशयवदसंशयं वेति ॥ तत्र संशयवद्यथा साधारणमपरेष्वपि गुणादि कृत्वा निमित्तमेकस्मिन् । यत्कृतमभिधानतयार्थे संशयवद्यथा हिमहा ॥ १२ ॥ साधारणमिति । यत्पदं गुणक्रियादिनिमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मिविशिष्टेऽर्थेऽभिधानतया संज्ञात्वेन कृतं न तु विशेषणत्वेन तदनेकार्थतयैकत्र निश्चयानुत्पादनात्संशयवदप्रतीतम् । उदाहरणं यथा-हिमहेति। अत्र हिमहननलक्षणया क्रिययैतत्पदं रवौ वह्नौ च साधारणम् । अभिधानतया चैकत्रापि न रूढम् । अत एकत्र
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy