SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६२ प्रकारान्तरेणासमर्थमाह काव्यमाला । इदमपरमसामर्थ्य धातोर्यत्पय्यते तदर्थोऽसौ । न च शक्नोति तमर्थं वक्तुं गमनं यथा हन्ति ॥ ५ ॥ इदमिति । इदमन्यदसामर्थ्य धातोः, यत्तदर्थोऽसौ धातुः पठ्यते न च तं निर्दिष्टमर्थ वक्तुं शक्नोति । यथा ‘हन् हिंसागत्योः' इति पाठेऽपि । हन्तीत्युक्ते हिनस्तीति प्रतीयते न च गच्छतीति । यमक श्लेषचित्रेषु गत्यथोंऽपि दृश्यते । अत एवाल्पोऽयं दोषः ॥ पुनः प्रकारान्तरमाह - शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिबलात् । यौगिकमर्थविशेषं पदं यथा वारिधौ जलभृत् ॥ ६ ॥ शब्देति । यौगिकं संबन्धजं क्वचिदर्थविशेषेऽसमर्थमेवावाचकमेव पदम् । तत्र तदर्थ - स्याभाव इति चेन्न । शब्दप्रवृत्तिहेतौ सत्यपि विद्यमानेऽपि । अपिर्विस्मये । चित्रमिदमित्यर्थः । यदि शब्दप्रवृत्तिहेतुत्वं कथं तर्ह्यसमर्थत्वमित्याह -- रूढिबलात्प्रसिद्धिबलात् । क्वचिदेव किंचिदेव शब्दरूपं वाचकत्वेन रूढमतस्तत्रैव प्रवर्तते नान्यत्र । एवकारोऽवधारणे । असमर्थमेव न तु समर्थम् । उदाहरणं यथा वारिधौ जलभृदिति । जलधारणक्रियालक्षणे प्रवृत्तिनिमित्ते सत्यपि जलभृच्छब्दो वारिधिं समुद्रमभिधातुमसमर्थः । मेघ एव तस्य रूढित्वादिति ॥ भूयोऽपि भेदान्तरमाह - निश्चीयते न यस्मिन्वस्तु विशिष्टं पदे समानेन । असमर्थ तच्च यथा मेघच्छविमारुरोहाश्वम् ॥ ७ ॥ निश्चीयत इति । यस्मिन्पदे तदर्थाभिधायिन्यपि विशिष्टं वस्तु न निश्चीयते तदप्यसमर्थम् । कथं न निश्चीयत इत्याह- समानत्वात् । समानस्तुल्यो मानः परिच्छेदो विवक्षितेऽन्यत्र च वस्तुनि येन पदेन तत्तथा तद्भावस्तत्त्वम् । तस्मादनेकार्थवाचकत्वादित्यर्थः । यथा मेघच्छविमारुरोहाश्वमित्युक्ते मेघानामनेकवर्णानां दर्शनान्न निश्चयः कर्तु पार्यते । यत्र तु निश्चयस्तत्समानार्थमपि साध्वेव । यथा - 'लक्ष्मीकपोलसंक्रान्तकान्तपत्रलतोज्ज्वलाः | दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥' अत्र हि शौरिः कृष्णवर्ण इति ॥ इदानीमस्यैवासमर्थदोषस्यातिव्याप्तिं संहर्तुमाह यत्पदमभिनयसहितं कुरुतेऽर्थविशेषनिश्चयं सम्यक् । नैकमनेकार्थतया तस्य न दुष्येदसामर्थ्यम् || ८ || यदिति । यत्पदं विशेषणभूतमनेकार्थतया विवक्षितविशिष्टार्थविशेषनिश्चयं सम्यक्कुरुते । किंभूतं सदभिनयसहितम् । तस्य । सामर्थ्य 'निश्चीयते न यस्मिन् ' (६७) इत्यनेन प्राप्तं दोषाय न भवति ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy