________________
६ अध्यायः]
काव्यालंकारः। ऽसमर्थाप्रतीतादिकः समिति संप्रति ह्रियते परिहियते । तया तस्मान्न्यूनादिकस्यासमर्थादिकस्य च दोषस्य यातिव्याप्तिरतिप्रसक्तिः सा च संह्रियते संकोच्यते । ननु पूर्वत्र वाक्यस्थ एव दोषः परिहृतो न पदस्थस्तत्कथमिहोच्यते पदवाक्यस्थ इति । सत्यम् । अन्यूनाधिकविशेषणविशिष्टैः पदैर्वाक्यस्य नियमितत्वात्पदस्थोऽपि दोषस्तेन परिहृत एवेति । तर्हि पदग्रहणमत्र न कर्तव्यमाशङ्कानिरासार्थम् । यतः कश्चिदाशङ्कयेत यथा वाक्यस्थ एव दोषस्ते परिहृतो न पदस्थ इति । तथा पदग्रहणाभावे ततोऽन्य इति । वक्ष्यमाणदोषोऽपि पदस्योक्तो न स्यादिति । पृथक्करणं तु तस्य दोषस्य महीयस्त्वख्यापनार्थम् । न्यूनाधिकादिदोषो हि नेत्रोत्पाटतुल्यः । असमर्थादिकस्तु पटलनिभः॥ अथ तानेवान्यान्दोषानाह
असमर्थमप्रतीतं विसंधि विपरीतकल्पनं ग्राम्यम् ।
अव्युत्पत्ति च देश्यं पदमिति सभ्यग्भवेद्दष्टम् ॥ २॥ __ असमर्थमिति । इतिशब्दो हेतौ, स च प्रत्येकं संबध्यते। असमर्थमिति हेतोः पदं दुष्टं भवेत् । एवमप्रतीतमित्यादौ बोध्यम् । सम्यक्शब्दो नियमार्थः । अवश्यं दुष्टमित्यर्थः । चशब्दः समुच्चये। अन्यैरनुक्तं व्युत्पत्तिहितं देश्यमसमर्थादिदोषमध्ये समुच्चीयत इत्यर्थः॥ यथोद्देशस्तथा लक्षणमिति पूर्वमसमर्थलक्षणमाह
पदमिदमसमर्थ स्याद्वाचकमर्थस्य तस्य न च वक्तुम् ।
तं शक्नोति तिरोहिततत्सामर्थ्य निमित्तेन ॥ ३ ॥ * पदमिति । यत्पदं तस्य निर्दिष्टार्थस्य वाचकम् । अथ च तमेवार्थ वक्तुं न शक्नोति तदासमर्थम् । वाचकं चेत्कथं न शक्नोतीत्याह-निमित्तेन केनच्छिब्दान्तरसंबन्धादिना तिरोहितं स्थगितं तत्रार्थे सामर्थ्य वाचकत्वं यस्य तत्तमभिधातुं न शक्नोतीति । एतेनावाचकत्वदोषादसामर्थ्य दोषभेद उक्तः ॥ सामान्येनाभिधायैतदेव विशेषेणाह
धातुविशेषोऽर्थान्तरमुपसर्गविशेषयोगतो गतवान् ।
असमर्थः स खार्थे भवति यथा प्रस्थितः स्थास्त्रौ ॥ ४ ॥ धातुविशेष इति । धातुविशेषस्तिष्ठत्यादिरुपसर्गविशेषेण प्रादिना योगतः संबन्धाद्धेतोरर्थान्तरं गतिनिवृत्त्यादिलक्षणादन्यमर्थं गतवान्प्राप्तः सन्खार्थेसमार्थो भवति । तमर्थ वक्तुं न शक्नोतीत्यर्थः । यथा प्रस्थितशब्दः स्थानावर्थे । विशेषग्रहणमुभयत्र न सर्वो धातुः सर्वेणोपसर्गेण संबन्धे सत्यर्थान्तरं याति । अपि तु कश्चिदेव केनचिदेवेत्यस्यार्थस्य सूचनार्थम् । तथाहि प्रेण योगे तिष्ठत्यादिरेवार्थान्तरं याति न तु यातिप्रभृतिः । तथा तिष्ठतिरपि प्रेण योगेन त्ववादिना। आकुलनिधनादीनि कलधौतकार्तस्वरवच्छब्दान्तराण्येव । न नामोपसर्गयोग उदाहृतः ॥