________________
काव्यमाला।
अहिणवकमलदलारुणिण माणु फुरत्तिण केण ।
जाणिज्जई तरुणीअणस्स निद्धा (2) भण अहरेण ॥ ३२ ॥ उद्यनिति । अहिणवेति । कश्चिन्मूर्खत्वेन मृगः सन्कंचन पृच्छति-यथा मह्यं मृगाय त्वं कथय । एष दिवसकरः सूर्य उद्यन्नुदयं प्राप्नुवन्कि कुरुत इत्येकः प्रश्नः। अपरमाह-अनिन्द्रायाशकाय मह्यं कथय निवेदय । क्वणितुकामः शब्दितुकामः सनहं किं करवाणि किं करोमीति द्वितीयः । उत्तरानुरोधेन चात्र मृगायेत्यनिन्द्रायेति च प्रश्नवाक्येऽभिहितम्।वक्तृबहुत्वख्यापनार्थमनेकभाषत्वख्यापनार्थ तृतीयप्रश्नोऽयं प्राकृतेच यथा-अहिणवेत्यादि । कश्चित्सुहृदमाह-अभिनवकमलदलारुणेन स्फुरता केन तरुणीजनस्य मानो लक्ष्य इति भण वद । निद्धत्यामन्त्रणपदम् (.) । अत्र यथाक्रमं यथाभाष चोत्तरमाह-अहरेणेति। तत्र-अहर्दिनम् । एण हे मृग । तथा अहरेऽनिन्द्र। अण शब्दं कुरु । तथा प्राकृतोत्तरम्-अहरेणाधरेण । ओष्ठेनेत्यर्थः । इत्युत्तरत्रयं युगपदुक्तम् । एतदनेकवक्तृकमनेकभाषं व्यस्तसमस्तं च प्रश्नोत्तरम् । एकवक्तृकं व्यादिभाष च प्रश्नोत्तरजातमन्यत्र विस्तरादवगन्तव्यम् ॥ अथाध्यायमुपसंहरन्नाह
इत्थं स्थितस्यास्य दिशं निशम्य शब्दार्थविक्षोदितचित्रवृत्तः ।
आलोच्य लक्ष्यं च महाकवीनां चित्र विचित्रं सुकविर्विदध्यात् ॥३३॥ इत्यमिति । अस्य चित्रस्येत्थं पूर्वोक्तप्रकारेण स्थितस्य दिशं मार्ग निशम्य श्रुत्वा तथा महाकवीनां लक्ष्यमुदाहरणं चालोच्य विमृश्य ततः सुकविश्चित्रमलंकारं चित्रं नानाविधं विदध्यात्कुर्यात् । किं विशिष्टः सन् । शब्दार्थों वेत्ति शब्दार्थवित् । तथा क्षोदितानि पर्यालोचितानि चित्राणि नानाविधानि वृत्तानि तनुमध्यादीनि येन स तथाविधः । यतः किल न सर्वेण वृत्तेन सर्व चित्रं कर्तुं पार्यते । तथालोच्य वीक्ष्य, लक्ष्यमुदाहरणम्, महाकवीनां सुकवीनाम् । चित्रकरणे किल लक्षणाभावाल्लक्ष्यदर्शनमेव महानुपाय इति कृत्वा ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः
पञ्चमोऽध्यायः समाप्तः।
षष्ठोऽध्यायः। शब्दस्यालंकारानभिधायेदानीं तदोषानभिधित्सुराह
पदवाक्यस्थो दोषो वाक्यविशेषप्रयोगनियमेन ।
यः परिहृतस्ततोऽन्यस्तदतिव्याप्तिश्च संहियते ॥१॥ पदवाक्यस्थ इति । पूर्वम् ‘अन्यूनाधिक-' (२।८) इत्यादिना ग्रन्थेन काव्योपयोगिनो वाक्यविशेषस्य प्रयोगे नियमेन यः पदस्थो वाक्यस्थश्च दोषः परिहृतः ततो दोषादन्यो