Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 40
________________ ३ अध्यायः] काव्यालंकारः। ताम् । किं तहीदानी करोतीत्याह-तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रसप्रधानं सा स्मरति ध्यायति । अहर्निशं दिवानिशम् । अत्र न देशविभागेनावृत्ति प्यवयवविभागेन । यतो द्रुतविलम्बिताख्यं द्वादशाक्षरमेतद्वत्तम् । अस्यार्धे षडक्षराणि । अत्र च प्रथममक्षरं मुक्ता त्रीणि यमकितानि ॥ तथाकमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम् । किमिति नाधिगता घिगतादृशं मधुकरेण बताणवता कृतम् ॥ ५८ ॥ कमलिनीति । इयं कमलिनी पद्मिनी किमिति तस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता । धिक्कष्टम् । तेनाणवता शब्दवता तादृशमयुक्तं कृतम् । धिग्बतशब्दावत्र खेदाधिक्यं सूचयतः। कीदृशी । सरसा नूतना । विकसिता प्रफुल्ला । अत एव सरसां जलाशयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यप्रालंकरणम् । अत्रापि देशावयवानपेक्षयावृत्तिः ॥ अध्यायमुपसंहरन्यमकखरूपं विषयं चाह इति यमकमशेषं सम्यगालोचयद्भिः सुकविभिरभियुक्तैर्वस्तु चौचित्यविद्भिः । सुविहितपदभङ्गं सुप्रसिद्धाभिधानं तदनु विरचनीयं सर्गबन्धेषु भूम्ना ॥ ५९॥ इतीति । इति पूर्वोक्तं यमकमशेषं सर्व समस्तपादैकदेशजं सम्यग्यथान्यायमालोचयद्भिः सत्कविभिरभियुक्तैः सावधानैः । तथा वस्तु च विषयभागमालोचयद्भिः । यथा कस्मिन्रसे कर्तव्यम् , क्व वा न कर्तव्यम् । यमकश्लेषचित्राणि हि सरसे काव्ये क्रियमाणानि रसखण्डनां कुर्युः । विशेषतस्तु शृङ्गारकरुणयोः । कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम् । यदुक्तम्-'यमकानुलोमतदितरचक्रादिभिदो हि रसवि. रोधिन्यः अभिधानमात्रमेतद्गडरिकादिप्रवाहो वा ॥' प्रयोगस्तु तेषां खण्डकाव्येषु देव. तास्तुतिषु रणवर्णनेषु च । तदेवाह-औचित्यविद्भिरिति । औचित्यं यमकादिविधानास्थानस्थानादिकं विदन्ति ये तैः । कीदृशं यमकम् । सुष्ठ विहिता हृदयंगमाः पदभङ्गा यत्र तत्तथाभूतम् । तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम् । तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम् । भूम्रा बाहुल्येन सर्गबन्धेषु महाकाव्येषु । नाटककथाख्यायिकादिषु पुनः खल्पमेवेत्यर्थः ॥ . इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत स्तृतीयोऽध्यायः समाप्तः।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188