Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
काव्यमाला ।
निजबुद्धरुचितं योग्यं रुचितमिष्टं च निजं खकीयं पदं स्थानमाप लेभे । कीदृशोऽसौ बलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको येन स तथाविधः । इत्यादिमध्यम् ॥
घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन् । सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥ ५४ ॥ घनेति । एतत्प्रावृषि पथिकस्य सुहृदोच्यते-हे घनाघ गृहाननुसरणाद्बहुपाप, अयमसौ नभाः श्रावणो मासो न नैति । अपि त्वायात्येव । नभःशब्दो मासवाचकः पुंलिङ्गः । कीदृशो नभाः। घनाघनान्सजलजलदानुदारयन्विस्तारयन् । अनु पश्चाच्च मनश्चित्तं दारयन्विपाटयन् । तथा हे सखे अविलास निर्लील, तां कान्तामदयं निर्दयं खेदयन्नुढेजयन्नहीयसे सर्पायसे । अथवा गोर्बलीवन हीयसे । बलीवर्द एवासीत्यर्थः । इत्याद्यन्तयमकम् ॥
असतामहितो युधि सारतया रतया ।
स तयोरुरुचे रुरुचे परमेभवते भवते ॥ ५५ ॥ असतामिति । हे उरुरुचे विस्तीर्णकान्ते । अथवा उर्वी रुग्यस्य स तस्मै विस्तीर्णकान्तये । स कश्चिद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान् । तया जगप्रसिद्धया युधि रणे सारतयोत्कृष्टतया हेतुभूतया । कीदृश्या। रतया सकया । संबद्धयेत्यर्थः । कीदृशोऽसौ । असतां दुर्जनानामहितो द्रोहकारी । अत एव महितः पूजितः । भवते कीदृशाय । परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै ॥ अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्यमाह
यमकानां गतिरेषा देशावयवावपेक्षमाणानाम् ।
अनियतदेशावयवं त्वपरमसंख्यं सदेवास्ति ॥ ५६॥ यमकानामिति । देश आदिमध्यान्तलक्षणः । अवयवोऽर्धत्रिभागादिः । तौ देशावयवावपेक्षमाणानामत्यजतां यमकानां गतिरेषा परिपाटीयं पूर्वोक्ता । यत्तु यमकं देशावयवौ नापेक्षते तदपरमसंख्यमसंख्यातम् । तच्च महाकविलक्ष्येषु सदेव साध्वेवास्ति विद्यते । एतदुक्तं भवति-स्वेच्छाकृतत्वेनानन्तत्वात्तस्य लक्षणं कर्तुं न शक्यते । केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम् ॥
अत्र तु दियात्रप्रदर्शनार्थमाह• कमलिनीमालनी दयितं विना न सहते सह तेन निषेविताम् ।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ ५७ ॥ कमलिनीति । सालिनी भ्रमरी दयितं प्रियं विना कमलिनी पद्मिनी न सहते न क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । कीदृशीं कमलिनीम् । तेन दयितेन सह समं निषेवि
•

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188