SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । निजबुद्धरुचितं योग्यं रुचितमिष्टं च निजं खकीयं पदं स्थानमाप लेभे । कीदृशोऽसौ बलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको येन स तथाविधः । इत्यादिमध्यम् ॥ घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन् । सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥ ५४ ॥ घनेति । एतत्प्रावृषि पथिकस्य सुहृदोच्यते-हे घनाघ गृहाननुसरणाद्बहुपाप, अयमसौ नभाः श्रावणो मासो न नैति । अपि त्वायात्येव । नभःशब्दो मासवाचकः पुंलिङ्गः । कीदृशो नभाः। घनाघनान्सजलजलदानुदारयन्विस्तारयन् । अनु पश्चाच्च मनश्चित्तं दारयन्विपाटयन् । तथा हे सखे अविलास निर्लील, तां कान्तामदयं निर्दयं खेदयन्नुढेजयन्नहीयसे सर्पायसे । अथवा गोर्बलीवन हीयसे । बलीवर्द एवासीत्यर्थः । इत्याद्यन्तयमकम् ॥ असतामहितो युधि सारतया रतया । स तयोरुरुचे रुरुचे परमेभवते भवते ॥ ५५ ॥ असतामिति । हे उरुरुचे विस्तीर्णकान्ते । अथवा उर्वी रुग्यस्य स तस्मै विस्तीर्णकान्तये । स कश्चिद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान् । तया जगप्रसिद्धया युधि रणे सारतयोत्कृष्टतया हेतुभूतया । कीदृश्या। रतया सकया । संबद्धयेत्यर्थः । कीदृशोऽसौ । असतां दुर्जनानामहितो द्रोहकारी । अत एव महितः पूजितः । भवते कीदृशाय । परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै ॥ अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्यमाह यमकानां गतिरेषा देशावयवावपेक्षमाणानाम् । अनियतदेशावयवं त्वपरमसंख्यं सदेवास्ति ॥ ५६॥ यमकानामिति । देश आदिमध्यान्तलक्षणः । अवयवोऽर्धत्रिभागादिः । तौ देशावयवावपेक्षमाणानामत्यजतां यमकानां गतिरेषा परिपाटीयं पूर्वोक्ता । यत्तु यमकं देशावयवौ नापेक्षते तदपरमसंख्यमसंख्यातम् । तच्च महाकविलक्ष्येषु सदेव साध्वेवास्ति विद्यते । एतदुक्तं भवति-स्वेच्छाकृतत्वेनानन्तत्वात्तस्य लक्षणं कर्तुं न शक्यते । केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम् ॥ अत्र तु दियात्रप्रदर्शनार्थमाह• कमलिनीमालनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ ५७ ॥ कमलिनीति । सालिनी भ्रमरी दयितं प्रियं विना कमलिनी पद्मिनी न सहते न क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । कीदृशीं कमलिनीम् । तेन दयितेन सह समं निषेवि •
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy