SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] एतदाह काव्यालंकारः । सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि । यमकानां जानीयात्तदुदाहरणानि तद्वच्च ॥ ४९ ॥ सुमतिरिति । एतानि यमकानां त्रीणि दशकानि प्राज्ञः पादावृत्तिक्रमेण मुखसंदशादिसंज्ञाभिर्जानीयात् । तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण । सर्वं चैतद्विधा विभकपाद इव यमकजातं ज्ञेयम् । केवलं तृतीयभागकृतो विशेषः ॥ तदेवाह— अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति । यमकान्याद्यन्तकवत्तथापरामर्घपरिवृत्तिम् ॥ ५० ॥ ३३ अन्तादिकमिति । यथान्तादिकमाद्यन्तकं च पूर्वत्र षोढा भिन्नं सत्प्रत्येकं षड्यमकानि जनितवत्तथेदमपि । तथापरामन्यामर्धपरिवृत्तिं द्वेधाविभक्तपादवज्जनयति । तथाशब्दस्योभयत्र योगः । इति त्रयोदश यमकानि ॥ एषामुदाहरणानि कानीत्याह तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम् । कृत्वार्धशश्च भागानिहापि सबै तथा रचयेत् ॥ ५१ ॥ तद्वदिति । उदाहरणान्यपि तद्वदेव त्रयोदश ज्ञेयानि । उपलक्षणं चैतत् । पादसमुद्र-कवदिहापि पञ्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम् । तत्र तु द्वयस्य पुनरपि भेदानाह—कृत्वार्धशश्वेत्यादि । यथा पूर्वत्रार्घार्धानि कृत्वा वऋशिखामालामध्याद्यन्तकाश्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देयानीति ॥ भूयो भेदान्तराण्याह स्थानाभिधानभाञ्जि त्रीण्यन्यानीति सन्ति यमकानि । आदिमध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः ॥ ५२ ॥ तदुदाहरणत्रयं क्रमादाह स्थानेति । त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति । किंनामधेयानीत्याह-स्थानाभिधानभाजीति । स्थानकृतमभिधानं भजन्ते यानि । कथमित्याह — आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम् । आदिभागेऽन्त्येन चेत्तदाद्यन्तयमकम् । मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम् ॥ स रणे सरणेन नृपो बलितावलितारिजनः । पदमाप दमात्खमतेरुचितं रुचितं च निजम् ॥ ५३ ॥ स इति । स कश्चिन्नृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच हेतोः स्वमते
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy